________________
लोक. द्रव्य. ३ सर्गः
॥ ३३ ॥
च पट्टाकृतिना, भवतः परिवेष्टिते ॥ ४०० ॥ तदस्थित्रयमाविद्ध्य स्थितेनास्थ्ना दृढीकृतम् । कीलिकाकृतिना वज्रर्षभनाराचकं हि तत् ॥ १ ॥ युग्मम् । अन्यदृषभनाराचं, कीलिकारहितं च तत् । केचित्तु वज्रनाराचं, पहोज्झितमिदं जगुः ॥ २ ॥ अस्थ्नोर्मर्कटबन्धेन, केवलेन दृढीकृतम् । आहुः संहननं पूज्या, नाराचाख्यं तृतीयकम् ॥ ३ ॥ बद्धं मर्कटबन्धेन, यद्भवेदेकपार्श्वतः । अन्यतः कीलिकानद्धमूर्धनाराचकं हि तत् ॥ ४ ॥ तत्की लिकाख्यं यत्रास्थनां केवलं कीलिकाबलम् । अस्थनां पर्यन्तसंबन्धरूपं सेवार्त्तमुच्यते ॥ ५ ॥ सेवयाऽभ्यङ्गाद्यया वा, ऋतं व्याप्तं ततस्तथा । छेदैः खण्डैर्मिथः स्पृष्टं, छेदस्पृष्टमतोऽथवा ॥ ६॥ यद्यपि स्युरनंस्थीनामेतान्यस्थ्यात्मकानि न । तद्गतः शक्तिविशेषस्तथाप्येषूपचर्यते ॥ ७ ॥ एकेन्द्रियाणां सेवा, तमपेक्ष्यैव कथ्यते । जीवाभिगमानुसृतैः, कैचिचाद्यं सुधाभुजाम् ॥ ८ ॥ संग्रहणीकारैस्तु छ गन्भतिरिनराणं, समुच्छिपणिदिविगल छेवहं । सुरनेरइया एगिंदिया य सवे असंघयणा ॥ १॥ इत्युक्तं । इतिसंहननानि १९ । कर्षं संसारकान्तारमयन्ते यान्ति यैर्जनाः । ते कषायाः क्रोधमानमायालोभा इति श्रुताः ॥ ९ ॥ क्रोधोऽप्रीत्यात्मको मानोऽन्येयस्त्रोत्कर्षलक्षणः । मायाऽन्यवचनारूपा, लोभस्तृष्णाभिगृधुता ॥ १० ॥ चत्वारोऽन्तर्भवन्त्येते, उभयोद्वेषरागयोः । आदिमौ द्वौ भवेद् द्वेषो, रागः स्यादन्तिमौ च तौ ॥११॥ खपक्षपातरूपत्वान्मानोऽपि राग एव यत् । ततस्त्रयात्मको रागो, द्वेषः क्रोधस्तु केवलम् ॥ १२ ॥ चत्वारोऽपि चतुर्भेदाः, स्युस्तेऽनन्तानुबन्धिनः । अप्रत्याख्यानकाः प्रत्याख्यानाः संज्वलना १ तत्संबन्धिन्यसंबन्धिनि वा टादौ स्वरे परे अन् ( इति हैमश० ) ।
Jain Education International
For Private & Personal Use Only
संहननानि १९
२०
२५
॥ ३३ ॥
२७
www.jainelibrary.org