________________
देन द्वादशस्थानान्यनुसर्त्तव्यानीति भगवती श० ३४ उ० १ वृत्तौ । द्वयोर्दिशोस्तथैकस्या, अलोकव्याहतौ बुधैः । चतुष्पञ्चदिगुत्पन्नोऽप्येषामेव विभाव्यताम् ॥ ८८ ॥ तथाहि - सर्वाधस्तादधोलोक, एव चेत्पश्चिमां दिशम् । स्थितोऽनुसृत्यैकाक्षः स्यात्प्राच्यां न व्याहतिस्तदा ॥ ८९ ॥ अधस्तनी दक्षिणा च द्वे एव व्याहते इति । दिग्भ्योऽन्याभ्यश्चतसृभ्यः पुद्गलानाहरत्यसौ ॥ ९० ॥ द्वितीयादिप्रतरेषु यदोर्ध्वं पश्चिमां दिशम् । स्थितोऽनुसृत्यैकाक्षः स्यान्न व्याहतिरधोऽपि तत् ॥ ९१ ॥ व्याहता दक्षिणैवैका, ततः पञ्चदिगागतान् । पुगलानाहरत्येष, एवं सर्वत्र भावना ॥ ९२ ॥ द्रव्यतश्च स आहारः स्यादनन्तप्रदेशकः । संख्या संख्पप्रदेशौ हि, नात्मग्रहणगोचरः ॥ ९३ ॥ असंख्याभ्रप्रदेशानां, क्षेत्रतः सोऽवगाहकः । जघन्यमध्यमोत्कृष्टस्थितिकः कालतः पुनः ॥ ९४ ॥ भावतः पञ्चधा वर्णरसैर्गन्धैर्द्विधाऽष्टधा । स्पर्शेरकगुणत्वादिभेदैः पुनरनेकधा ॥ ९५ ॥ किंच- अनन्तरावगाढानि, खगोचरगतानि च । द्रव्याण्यभ्यवहार्याण्यणूनि वा बादराणि वा ॥ ९६ ॥ आहरन्ति वर्णगन्धरसस्पर्शान्पुरातनान् । विनाश्यान्यांस्तथोत्पाद्यापूर्वान् जीवाः खभावतः ॥ ९७ ॥ इत्याहारादिक्प्रसंगात् किञ्चिदाहारखरूपम् ॥ १८ ॥ अस्थिसंबन्धरूपाणि, तत्र संहननानि तु । षोढा खलु विभिद्यन्ते, दार्व्यादितारतम्यतः ॥ ९८ ॥ तथाहु:- " वज्ज रिसहनारायं, पढमं बीयं च रिसहनारायं । नारायमद्धनाराय, कीलिया तहय छेव ॥ १ ॥” कीलिका वज्रमृषभः, पट्टोऽस्थिद्वयवेष्टकः । अस्थ्नोमर्कटबन्धो यः, स नाराच इति स्मृतः ॥ ९९ ॥ ततश्च-बद्धे मर्कटबन्धेन, सन्धौ सन्धौ यदस्थिनी । अस्थमा
Jain Educatic mational
For Private & Personal Use Only
- पश्चिमा ?
५
१०
१४
www.jainelibrary.org