________________
लोक.द्रव्य.
३ सर्गः ॥३२॥
आसान शः १८
परद्रव्यापहरणमेकं पापमयगिर्हतैः किं नः फलं भवन प्रयोजनम् । घा
कश्चिद् दृष्टिमेति नः। हन्तव्यः सोऽद्य सर्वोऽपि, द्विपदो वा चतुष्पदः॥७४ ॥ अन्यः प्राह चतुष्पद्भिरपराद्धं न किञ्चन । मनुष्या एव हन्तव्या, विरोधो यैः सहात्मनाम् ॥ ७५ ॥ तृतीयः प्राह न स्त्रीणां, हत्या कार्याऽतिनिन्दिता । पुरुषा एव हन्तव्या, यतस्ते क्रूरचेतसः ॥७६॥ निरायुधैर्वराकैस्तैहतैः किं नः प्रयोजनम् ? । घात्याः सशस्त्रा एवेति, तुर्यश्चातुर्यवान् जगौ ॥७७॥ सशस्त्रैरपि नश्यद्भिर्हतैः किं नः फलं भवेत् ? सायुधो युध्यते यः स, वध्य इत्याह पञ्चमः ॥७८॥ परद्रव्यापहरणमेकं पापमिदं महत्। प्राणापहरणं चान्यच्चेत्कुर्मस्तर्हि का गतिः ? ॥ ७९ ॥ धनमेव तदादेयं, मारणीयो न कश्चन । षष्ठः स्पष्टमभाषिष्ट, प्राग्वदत्रापि भावना ॥८॥ सर्वस्तोकाः शुक्ललेश्या, जीवास्तेभ्यो यथोत्तरम् । पद्मलेश्यास्तेजोलेश्या, असंख्येयगुणाः क्रमात् ॥ ८१॥ अनन्तनास्ततोऽलेश्याः, कापोत्याख्यास्ततस्तथा। तेभ्यो नीलकृष्णलेश्याः, क्रमाद्विशेषतोऽधिकाः॥२॥ इति लेश्यास्वरूपं१७॥
निर्व्याघातं प्रतीत्य स्यादाहारः षड्दिगुद्भवः । व्याघाते त्वेष जीवानां, त्रिचतुष्पश्चदिग्भवः॥ ८३ ॥ अलोकवियताऽऽहारद्रव्याणां स्खलनं हि यत् । स व्याघातस्तदभावो, नियाघातमिहोच्यते ॥८४॥ भावना त्वेवंसर्वाधस्तादधोलोकनिष्कुटस्याग्निकोणके। स्थितो भवेद्यदैकाक्षस्तदाऽसौ त्रिदिगुद्भवः॥८५॥ पूर्वस्यां च दक्षिणस्थामधस्तादिति दिकूत्रये । संस्थितत्वादलोकस्य, ततो नाहारसंभवः॥८६॥ अपरस्या उत्तरस्या, ऊर्द्धतश्चेति | दिक्त्रयात् । पुद्गलानाहरत्येवं, सूक्ष्माः पञ्चानिलोऽनणुः॥८७॥ तथोक्तं-"इह लोकचरमान्ते यादरपृथिवीकायिकाप्कायिकतेजोवनस्पतयो न सन्ति, सूक्ष्मास्तु पश्चापि सन्ति, बादरा वायुकायिकाश्चेति पर्याप्तापर्याप्तकभे-४
20/2002020208292008
॥३२॥
Jain Educat
i onal
For Private Personal Use Only
Y
ujainelibrary.org