SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ उदाहृताः । स्थानान्यध्यवसायस्य, तासां संख्यातिगानि च ॥६१॥क्षेत्रतस्तान्यसंख्येयलोकाभ्रांशसमानि वै ।। कालतोऽसंख्येयकालचक्रक्षणमितानि च ॥६२॥ यदुक्तं-"असंखेजाण उस्सप्पिणीण ओसप्पिणीण जे समया। संखाईया लोगा, लेस्साणं हंति ठाणाई॥१॥" अभिप्रायो यादृशः स्यात् , सतीष्वेतासुदेहिनाम् ।समया समयोक्ताभ्यां, दृष्टान्ताभ्यां प्रदर्यते॥६॥द्वयोरपि दृष्टान्तयोः स्थापना-यथा पथः परिभ्रष्टाः, पुरुषाः षण् महाटवीम् । प्राप्ताः समन्तादैक्षन्त, भक्ष्यं दिक्षु बुभुक्षिताः॥६४॥ जम्बूवृक्षं कचित्तत्र, ददृशुः फलभङ्गुरम् । आयन्तमिवाध्वन्यान् , मरुचपलपल्लवैः॥६५॥ एकस्तत्राह वृक्षोऽयं, मूलादुन्मूल्यते ततः। सुखासीनाः फलाखादं, कुर्मःश्रमविवर्जिताः ॥६६॥ अन्यः प्राह किमेतावान्, पात्यते प्रौढपादपः । शाखा महत्यश्छिद्यन्ते, सन्ति तासु फलानि यत्॥३७॥ तृतीयोऽथावदत् शाखा, भविष्यन्ति कदेदृशः। प्रशाखा एव पात्यन्ते, यत एताः फलैभृताः ॥६८॥ उवाच वाचं तुर्योऽथ, तिष्ठन्त्वेता वराकिकाः। यथेच्छं गुच्छसंदोहं, छिंझो येषु फलोद्गमः ॥६९॥ न नः प्रयोजनं गुच्छः, फलैः किंतु प्रयोजनम् । तान्येव भुवि कीर्यन्ते, पञ्चमः प्रोचिवानिति ॥ ७० ॥ षष्ठेन शिष्टमतिना, समादिष्टमिदं ततः । पतितानि फलान्यद्मो, मा भूत्पातनपातकम् ॥ ७१॥ भाव्याः षण्णामप्यमीषां, लेश्याः कृष्णादिकाः क्रमात् । दयतेऽन्योऽपि दृष्टान्तो, दृष्टः श्रीश्रुतसागरे ॥७२॥ केचन ग्रामघाताय, चौराः क्रूरपराक्रमाः । क्रामन्तो मार्गमन्योऽन्यं, विचारमिति चक्रिरे ॥७३॥ एकस्तत्राह दुष्टात्मा, यः18 Jan Educational For Private Personal use only How.jainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy