________________
लोक. द्रव्य. ३ सर्गः
॥ २९ ॥
लेश्या खवर्णतः ॥ ३०० ॥ जैत्रा खदिरसाराणामतसीपुष्प सोदरा । कापोतलेश्या वर्णेन, वृन्ताककुसुमौघजित् ॥ १ ॥ पद्मरागनवादित्यसन्ध्यागुञ्जार्धतोऽधिका । तेजोलेश्या खवर्णेन, विद्रुमाङ्कुरजित्वरी ॥ २ ॥ सुवर्णयूथिका स्वर्णकर्णिकारौघचम्पकान् । पराभवन्ती वर्णेन, पद्मलेश्या प्रकीर्त्तिता ॥ ३ ॥ गोक्षीरदधिडिण्डीरपिण्डादधिकपाण्डुरा । वर्णतः शरदभ्राणां, शुक्ललेश्याऽभिभाविनी ॥ ४ ॥ किराततिक्तत्रपुषी कटुतुम्बीफलानि च । त्वचः फलानि निम्बानां, कृष्णलेश्या रसैर्जयेत् ॥ ५ ॥ पिप्पलीशृङ्गवेराणि, मरीचानि च | राजिकाम् । हस्तिपिप्पलिकां जेतुं, नीललेश्या रसैः प्रभुः ॥ ६ ॥ आमानि मातुलिङ्गानि, कपित्थवदराणि च । फणसामलकानीष्टे, रसैर्जेतुं तृतीयिका ॥ ७ ॥ वर्णगन्धरसापन्नपक्काम्रादिसमुद्भवान् । रसानधिकमापयोगी है धुर्या, तुर्याऽधिकुरुते रसैः ॥ ८ ॥ द्राक्षाखर्जूरमाध्वीक वारुणीनामनेकधा । चन्द्रप्रभादिसाधूनां जयिनी पञ्चमी रसैः ॥ ९ ॥ शर्करा गुडमत्स्यण्डीखण्डाखण्डादिकानि च । माधुर्यधुर्य वस्तूनि, शुक्ला विजयते रसैः ॥ १० ॥ आद्यास्तिस्रोऽतिदुर्गन्धा, अप्रशस्ता मलीमसाः । स्पर्शतः शीतख्क्षाश्च, संक्लिष्टा दुर्गतिप्रदाः ॥ ११ ॥ अन्त्यास्तिस्रोऽतिसौगन्ध्याः, प्रशस्ता अतिनिर्मलाः । स्निग्धोष्णाः स्पर्शगुणतोऽसंक्लिष्टाः सुगतिप्रदाः ||१२|| परस्परमिमाः प्राप्य, यान्ति तद्रूपतामपि । वैडूर्यरक्तपदयोर्ज्ञेये तत्र निदर्शने ॥ १३ ॥ तत्रापि देवनारकलेश्यासु, वैडूर्यस्य निदर्शनम्। तिर्यग्मनुजलेश्यासु, रक्तवस्त्रनिदर्शनम् ॥ १४ ॥ तथाहि - देवनारकयोर्लेश्या, भवान्तमवस्थिताः । नानाकृतिं यान्ति किंतु, द्रव्यान्तरोपधानतः ॥ १५ ॥ न तु सर्वात्मना स्वीयं, स्वरूपं
Jain Education
For Private & Personal Use Only
लेश्या स्वरूपं
= 3541535
२०
२५
॥ २९ ॥ २७
ainelibrary.org