________________
॥ ८९॥ सुरादध्यादिकं ज्ञानदर्शनावरणोदये । तत्क्षयोपशमे हेतुर्भवेद्ब्राह्मीवचादिकम् ॥९०॥ एवं च-IN कषायोद्दीपकत्वेऽपि, लेश्यानां न तदात्मता । तथात्वे ह्यकषायाणां, लेश्याऽभावः प्रसज्यते ॥ ९१ ॥ लेश्याः स्युः कर्मनिस्यन्द इति यत्कैश्चिदुच्यते । तदप्यसारं निस्यन्दो, यदि तत्कस्य कर्मणः? ॥१२॥ चेद्यथायोगमष्टानामप्यसौ कर्मणामिति । तच्चतुष्कर्मणामेताः, प्रसज्यन्तेऽप्ययोगिनाम् ॥९३ ॥ न यद्ययोगिनामेता, घातिकर्मक्षयान्मताः। तत एव तदा न स्युर्योगिकेवलिनामपि ॥१४॥ ननु च-योगस्य परिणामत्वे, लेश्यानां हेतुता भवेत् । प्रदेशबन्धं प्रत्येव, न पुनः कर्मणां स्थितौ ॥९५॥ 'जोगा पयडिपएसं ठिइअणुभागं कसायओ कुणई' इति वचनात् , अत्रोच्यते,न कर्मस्थितिहेतुत्वं, लेश्यानां कोऽपि मन्यते। कषाया एव निर्दिष्टा, यत्कर्मस्थितिहेतवः ॥९६॥ लेश्याः पुनः कषायान्तर्गतास्तत्पुष्टिकृत्तया । तत्स्वरूपा एव सत्योऽनुभागं प्रति हेतवः ॥९७॥ एतेन यत्क्वचिल्लेश्यानामनुभागहेतुत्वमुच्यते, शिवशर्माचार्यकृतशतकग्रन्थे च कषायाणामनुभागहेतुत्वमुक्तं तदुभयमप्युपपन्नं, कषायोदयोपबृंहिकाणां लेश्यानामपि उपचारनयेन कषायखरूपत्वादित्याद्यधिकं प्रज्ञापनालेश्यापदवृत्तितोऽवसेयं । सा च षोढा कृष्णनीलकापोतसंज्ञितास्तथा । तेजो| लेश्या पद्मलेश्या, शुक्ललेश्यति नामतः ॥९८॥ खञ्जनाञ्जनजीमूतभ्रमभ्रमरसन्निभा। कोकिलाकलभीकल्पा, कृष्णलेश्या खवर्णतः॥ ९९ ॥ पिच्छतः शुकचाषाणां, केकिकापोतकण्ठतः। नीलाम्जवनतो नीला, नील१ तत्र प्रदेशबन्धो योगात्तदनुभवनं कषायवशात् । स्थितिपाकविशेषस्तस्य भवति लेश्या विशेषेण ॥ ३७॥ इतिप्रेशमरतो.
lain Education
For Private & Personal Use Only
nelibrary.org