________________
संत्यजन्ति ताः । सद्वैडूर्यमणिर्यद्वन्नाना सूत्रप्रयोगतः ॥ १६ ॥ जपापुष्पादिसान्निध्याद्यथा वाऽऽदेशमण्डलम् ॥ नानावर्णान् दधदपि, स्वरूपं नोज्झति स्वकम् ॥ १७ ॥ अत एव भावपरावृत्त्या नारकनाकिनोः । भवन्ति लेश्याः षडपि, तदुक्तं पूर्वसूरिभिः ॥ १८ ॥ " सुरनारयाण ताओ, दबलेसा अवट्टिया भणिया । भावपरावतीए पुण एसुं हुंति छल्लेसा ॥१९॥” दुष्टलेश्यावतां नारकाणामप्यत एव च । सम्यक्त्वलाभो घटते, तेजोलेश्यादिसंभवी ॥ २० ॥ यदाहु:- "सम्मत्तस्स य तिसु उवरिमासु पडिवज्रमाणओ होइ । पुचपडिवन्नओ पुण अन्नयरीए उ लेसाए ||१||” तथैव तेजोलेश्याट्ये, घटते संगमामरे । वीरोपसर्गकर्तृत्वं, कृष्णलेश्यादिसंभवि ॥ २१ ॥ स्वरूपत्यागतः सर्वात्मना तिर्यग्मनुष्ययोः । लेश्यास्तद्रूपतां यान्ति, रामक्षिप्तपटादिवत् ॥ २२ ॥ अत एवोत्कर्षतोऽप्यन्तर्मुहूर्त्तमवस्थिताः । तिर्यगनृणां परावर्त्त, यान्ति लेश्यास्ततः परम् ॥ २३ ॥ बहुधाऽऽसां परीणामस्त्रिधा वा नवधा भवेत् । सप्तविंशतिधा चैकाशीतिधा त्रिगुणस्तथा ॥ २४ ॥ जघन्य मध्यमोत्कृष्टभेदतस्त्रिविधो भवेत् । प्रत्येकमेषां स्वस्थानतारतम्यविचिन्तया ॥ २५ ॥ भवेन्नवविधस्तेषामपि भेदविवक्षया । सप्तविंशतिधा मुख्योऽप्येवं भेदैस्त्रिभिस्त्रिभिः ॥ २६ ॥ तथाहुः प्रज्ञापनायां - " कण्हलेसा णं भंते ! कतिविहं परिणामं परिणमति ?, गोयमा ! तिविहं वा, णवविहं वा, सत्ताविसतिविहं वा, एक्कासीतिविहं वा तेआलदुसयविहं वा, बहुं वा बहुविहं वा परिणामं परिणमति" । लेश्यापरिणामस्याऽऽदिमान्त्ययोर्ना - ङ्गिनां मृतिः क्षणयोः । अन्तर्मुहूर्तकेऽन्त्ये शेषे वाऽऽद्ये गते सा स्यात् ॥ २७॥ आर्या । तत्राप्यन्तर्मुहूर्त्तेऽन्त्ये, शेषे
Jain Educatmational
For Private & Personal Use Only
१०
१४
www.jainelibrary.org