________________
मनन्ता निर्वृता जिनाः ॥६५॥ अत्रायं विशेष:-यः षण्मासाधिकायुको, लभते केवलोद्गमम् । करोत्यसौ समुद्घातमन्ये कुर्वन्ति वा न वा ॥१॥ इति गुणस्थानक्रमारोहे । छम्मासाऊ सेसे उप्पण्णं जेसि केवलं नाणं । ते नियमा समुघाइय सेसा समुघाय भइयवा ॥२॥ इत्यस्य वृत्ती, इति केवलिसमुद्घातः। आद्याः पञ्च समुद्घाताः, सर्वेषामपि देहिनाम् । अनुभूता अनन्ताः स्युर्यथाखं सर्वजातिषु ॥६६॥ भाविनस्तु न सन्त्येव, केषाञ्चिल्लघुकर्मणाम् । केषाञ्चित्त्वङ्गिनामेकद्रयादयः स्युरनेकशः ॥ ६॥ यावद्गण्या अगण्या वा, स्युः केषाश्चिदनन्तकाः । यथाखं सर्वजातित्वे, विज्ञेया बहुकर्मणाम् ॥ ६८ ॥ नवरं-सूक्ष्मादिनिगोदैस्तु, निगोदे त्रय एव ते । अनुभूता अनन्ताः स्यु विनस्ते तु सर्ववत् ॥ ६९॥ आहारका नरान्येषां, केषाञ्चिन्द्रभवे त्रयः । अतीताः स्युर्भाविनस्तु, ते चत्वारो न चाधिकाः ॥ ७॥ संभवेयुश्चत्वारोऽनुभूता नृभवे नृणाम् । भविष्यन्तोऽपि विज्ञेयास्तावन्तो नृभवे नृणाम् ॥ ७१॥ चत्वारोऽपि व्यतीतास्तु, नान्येषांनृन् विना यतः। आहारकं तुर्यवारं, कृत्वा सिध्यति तद्भवे ॥७२॥ तथोक्तं प्रज्ञापनावृत्तौ-"इह यश्चतुर्थवेलमाहारकं करोति स नियमात्तद्भव एव मुक्तिमासादय ति, न गत्यन्तरमिति” । सप्तमस्तु न कस्यापि, स्यादतीतो नरं विना। भाव्यप्येकोऽन्यजन्तूनां, केषाश्चिन्नृत्व एव सः ॥७३॥ समुद्घातोत्तीर्णजिनं, प्रतीत्यैको निषेवितः । मनुष्यस्य मनुष्यत्वेऽनागतोऽप्येक एव सः ॥ ७४ ॥ असद्वेद्याश्रित
१ आहारकसमुद्घाताः। २ नरान्विहाय परेषाम् । ३ सिध्यन्तीति पा० ।
आहारकं तुर्यवारं, कृत्वा मुक्तिमासादयति, न गवसः ॥७३॥ सम
Jain Educa
t ional
For Private Personal use only
K
ainelibrary.org