________________
र्यादाय तद्योग्यान्, देहमाहारकं सृजेत् ॥ ३६॥ त्रिभिर्विशेषकम् । इत्याहारकसमुद्रातः । यस्यायुषोऽतिरिक्तानि, कर्माणि सर्ववेदिनः । वेद्याख्यनामगोत्राणि, समुद्घातं करोति सः॥ ३७॥ आन्तर्मुहर्ति पूर्वमावर्जीकरणं सृजेत् । अन्तमुहर्तशेषायुः, समुद्रातं ततो ब्रजेत् ॥ ३८ ॥ आवर्जीकरणं शस्तयोगव्यापारणं मतम् । इदं त्ववश्यं कर्त्तव्यं, सर्वेषां मुक्तिगामिनाम् ॥ ३९॥ आत्मप्रदेशैर्लोकान्तस्पृशमूध्वर्मधोऽपि च । कुर्यादाद्यक्षणे दण्डं, खदेहस्थूलविस्तृतम् ॥४०॥ द्वितीये समये तस्य, कुर्यात्पूर्वापरायतम् । कपाटं पाटवोपेतः, समयेऽथ तृतीयके ॥४१॥ ततो विस्तार्य प्रदेशानुदीचीदक्षिणायतम् । मन्थानं कुरुते तुर्ये, ततोऽन्तराणि पूरयेत् ॥४२॥ खप्रदेशैस्तदा सर्वान् , लोकाकाशप्रदेशकान् । स व्यामोति समा येते, लोकाकाशैकजीवयोः॥४३॥ संहरेत्पञ्चमे चासो, समयेऽन्तरपूरणम् । षष्ठे संहृत्य मन्थानं, संहरेत्सप्तमेररिम् ॥४४॥ संहरेदष्टमे दण्डं, शरीरस्थस्ततो भवेत् । अन्तर्मुहर्त जीवित्वा, योगरोधाच्छिवं व्रजेत् ॥ ४५ ॥ यदाहु:-“यस्य पुनः केवलिनः कर्म भवत्यायुषोऽतिरिक्ततरम् । स समुद्घातं भगवानुपगच्छति तत्समीकर्तुम् ॥ २४६॥ दण्डं प्रथमे समये कपाटमथ चोत्तरे तथा समये । मन्थानमथ तृतीये विश्वव्यापी चतुर्थे तु ॥४७॥ संहरति पञ्चमे त्वन्तराणि मन्थानमथ पुनः षष्ठे । सप्तमके तु कपाटं संहरति ततोऽष्टमे दण्डम् ॥४८॥ औदारिकप्रयोक्ता प्रथमाष्टमसमययोरसाविष्टः । मिश्रौदारिकयोक्तासप्तमषष्ठद्वितीयेषु ॥४९॥कार्मणशरीरयोक्ता, चतुर्थके पञ्चमे तृतीये च । समयत्रयेऽपि तस्मिन् , भवत्यनाहा
20090878002007
Jain Educat
i onal
For Private & Personel Use Only
W
w
.jainelibrary.org