________________
लोक. द्रव्य. ३ सर्गः
॥ २५ ॥
देहे सर्वदेहिनाम् ॥ २०० ॥ इत्यल्पबहुत्वकृतो विशेषः । एकजीवापेक्षया स्याज्ज्येष्ठमादारिकान्तरम् । अन्तमुहूर्त्ताभ्यधिकास्त्रयस्त्रिंशत्पयोधयः ॥ १ ॥ तथोक्तं जीवाभिगमवृत्तौ - "उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि अन्तमुहूर्त्ताभ्यधिकानि तानि चैवं कश्चिचारित्री वैक्रियशरीरं कृत्वाऽन्तर्मुहूर्तं जीवित्वा स्थितिक्षयादविग्रहेणानुउत्तरसुरेषु जायत इति” । वैक्रियस्यान्तरं कायस्थितिकालो वनस्पतेः । अर्धश्च पुद्गल परावर्त्त आहारकान्तरम् ॥२॥ | लघु चायस्य समयोऽन्तर्मुहूर्त्त तदन्ययोः । न संभवत्यन्तरं च, देहयोरुक्तशेषयोः ॥३॥ इत्यन्तरकृतो विशेषः । | इति देहखरूपं ९ । सदसलक्षणोपेतप्रतीकसन्निवेशजम् । शुभाशुभाकाररूपं, षोढा संस्थानमङ्गिनाम् ॥ ४ ॥ समचतुरस्रं न्यग्रोधसादिवामनककुज्जहुण्डानि । संस्थानान्यङ्गे स्युः प्राक्कर्मविपाकतोऽसुमताम् ॥ ५ ॥ तत्र चाद्यं चतुरस्रं, संस्थानं सर्वतः शुभम् । न्यग्रोधमूर्ध्वं नाभेः सत्, सादि नाभेरधः शुभम् ||६|| इदं साचीति | केऽप्याहुः, साचीति शाल्मलीतरुः । मूले स्याद् वृत्तपुष्टोऽसौ न च शाखासु तादृशः ॥ ७ ॥ तथोक्तं पञ्चसंग्रहवृत्तौ - " अपरे तु साचीति पठन्ति, तत्र साचीति प्रवचनवेदिनः शाल्मलीतरुमाचक्षते, ततः साचीव | यत्संस्थानं तत्साचीति,” एवं च न्यग्रोधसाचिनोरन्वितार्थता भवतीति ज्ञेयं । मौलिग्रीवापाणिपादे, कमनीयं च वामनम् । लक्षितं लक्षणैर्दुष्टैः शेषेष्ववयवेषु च ॥८॥ रम्यं शेषप्रतीकेषु, कुब्जं संस्थानमिष्यते । दुष्टं किंतु शिरोग्रीवापाणिपादे भवेदिदम् ॥ ९ ॥ हुण्डं तु सर्वतोदुष्टं, केचिद्वामन कुब्जयोः । विपर्यासमामनन्ति, लक्षणे कृतलक्षणः ॥ १० ॥ इति संस्थानस्वरूप १० । अङ्गमानं तु तुङ्गत्वमानमङ्गस्य देहिनाम् । स्थूलतापृथुताद्यं तु,
Jain Education International
For Private & Personal Use Only
शरीरेषु स्थित्यल्पबहुत्वांतराणि संस्था
नानि
२०
२५
॥ १५ ॥
२८
lainelibrary.org