________________
दीर्घिकादौ जलक्रीडां, कुर्वाणः स्वायुषःक्षयात् ॥६२॥ उत्पद्यते मत्स्यतया, स्वात्यासन्नप्रदेशके । तदा जघन्या स्थादस्य, यद्वैवं संभवत्यसौ ॥ ६३ ॥ पूर्वसंवन्धिनीं नारीमुपभुक्तां महीस्पृशा । कश्चित्सनत्कुमारादिदेवः प्रेमवशीकृतः ॥ ६४ ॥ तदवाच्यप्रदेशे स्वमवाच्यांशं विनिक्षिपन् । परिष्वज्य मृतस्तस्या, एवं गर्भे समु-18 द्भवेत् ॥६५॥ उत्कर्षतस्त्वधो यावत्पातालकलशाश्रितम् । मध्यमीयं तृतीयांशं, तत्र मत्स्यादिसंभवात् ॥६६॥ तिर्यक् स्वयम्भूरमणपर्यन्तावधि सा भवेत् । अच्युतस्वर्गपर्यन्तमूर्ध्व सा चेति भाव्यते ॥६॥ कश्चिदच्युतनाकस्थसुहृद्देवस्य निश्रया । देवः सनत्कुमारादिर्गतस्तत्र म्रियेत यत् ॥ ६८॥ सहस्रारान्तदेवानां, भावनीयाऽनया दिशा । कनिष्ठा च गरिष्ठा च, तैजसस्थावगाहना ॥ ६९ ॥ आनताद्यच्युतान्तानां, देवानां स्याजघन्यतः। अङ्गुलासंख्येयभागपरिमाणाऽवगाहना ॥ ७० ॥ उत्पद्यते नरेष्वेव, देवा नन्वान तादयः । नराश्च नृक्षेत्र एव, तदियं घटते कथम् ? ॥७१॥ अत्रोच्यते-उपभुक्तां मनुष्यण,मानुषी पूर्ववल्लभाम् । उपलभ्यावधिज्ञानात्प्रेमपाशनियन्त्रितः ॥७२॥ इहाऽऽगत्याऽऽसन्नमृत्युतया बुद्धिविपर्ययात् । मलिनत्वाच कामानां, वैचित्र्यात्कर्ममर्मणाम् ॥७३॥ गाढानुरागादालिङ्गय, तदवाच्यप्रदेशके । परिक्षिप्य निजावाच्यं, म्रियते स्वायुषः क्षयात् ॥ ७४ ॥ गर्भेऽस्या एव मृत्वाऽयं, यद्युत्पद्येत निर्जरः । आनतादिक्रतुभुजस्तदेयमुपपद्यते ॥७॥ त्रिभिर्विशेषकं । आनतादिक्रतुभुजां, मनोविषयसेविनाम् । कायनास्पृशतां देवीमपि क्षीणमनोभुवाम् ॥७६॥ मनुष्यस्त्रियमाश्रित्य, यद्येवं स्याद्विडम्बना । तर्हि को नाम दुर्वारं, कन्दर्प जेतुमीश्वरः
909009000000000000000000020700
Jain Educ
a
tion
For Private Personal Use Only
w
.jainelibrary.org