________________
लोक. द्रव्य. ३ सर्गः
॥ २३ ॥
Jain Education
जलम् ॥ ४६ ॥ ततश्च सीमन्तकादिनरकवत्त कश्चन नारकः । पातालकलशासन्नो, मरणान्तसमुद्धतः ॥ ४७ ॥ कुड्यं पातालकुम्भानां, विभिद्योत्पद्यते यतः । मत्स्यत्वेन तृतीयांशे, मध्यमे चरमेऽपि वा ॥ ४८ ॥ तस्मादर्वाक् तु नैवास्ति तिर्यगमनुजसंभवः । उत्पत्तिर्नारकाणां च न तिर्यगमनुजौ विना ॥ ४९ ॥ उत्कर्षतस्त्वधो यावत्सप्तमीं नरकावनीम् । नारकाणामेतदन्तं, स्वस्थानस्थितिसंभवात् ॥ ५० ॥ तिर्यक्वयम्भूरमणसमुद्रावधि सा भवेत् । नारकाणां तत्र मत्स्यादित्वेनोत्पत्तिसंभवात् ॥ ५१ ॥ ऊर्ध्वं च पण्डकवन स्थायि तोयाश्रयावधि । अत ऊर्ध्वं तु कुत्रापि नृतिर्यक् संभवोऽस्ति न ॥ ५२ ॥ पञ्चेन्द्रियतिरश्चां च, जघन्या परमाsपि च । विकलेन्द्रियवज्ज्ञेया, तेजसस्यावगाहना ॥ ५३ ॥ अङ्गुला संख्येयभागमात्रा नृणां जघन्यतः । उत्कर्षतश्च क्षेत्राल्लोकान्तावधि कीर्त्तिता ॥ ५४ ॥ भवनव्यन्तरज्योतिष्काद्य द्विवर्गना किनाम् । अङ्गुलासंख्येयभागमाना ज्ञेया जघन्यतः ॥ ५५ ॥ ममत्वाभिनिविष्टानां स्वरत्नाभरणादिषु । पृथिव्यादितया तेषां, तत्रैवोत्पत्तिसंभवात् ॥ ५६ ॥ उत्कर्षतस्त्वधः शैलानरकक्ष्मातलावधि । गतानां तत्र केषाञ्चित्तेषां मरणसंभवात् ॥ ५७ ॥ तिर्यक् स्वयम्भूरमणापरांतवेदिकावधि । ऊर्ध्वं तथेषत्प्राग्भारापृथिव्यूर्ध्वतलावधि ॥ ५८ ॥ एतावदन्तं पृथिवीकायत्वेन समुद्भवात् । ततः परं च पृथिवीकायादीनामसंभवात् ॥ ५९ ॥ सनत्कुमारकल्पादि देवानां स्याज्जघन्यतः । अङ्गुला संख्येयभागमाना सैवं विभाव्यते ॥ ६० ॥ देवाः सनत्कुमाराद्या, | उत्पद्यन्ते स्वभावतः । गर्भजेषु नृतिर्यक्षु, ध्रुवं नैकेन्द्रियादिषु ॥ ६१ ॥ यदा सनत्कुमारादिसुधाभुग्मंदरादिषु ।
For Private & Personal Use Only
शरीर स्वरूपं
२०
२५
॥ २३ ॥
२८
www.jainelibrary.org