SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Jain Educatio स्वस्वदेहावगाहिनी ॥ ३१ ॥ मरणान्तसमुद्घातं गतानां देहिनां भवेत् । यावत्य केन्द्रियादीनां तैजसस्यावगाहना ॥ ३२ ॥ ब्रवीमि तां जिनप्रोक्तस्वरूपां सोपपत्तिकम् । भाग्यैवं कार्मणस्यापि सोभयोः साहचर्यतः ॥ ३३ ॥ युग्मम् । खखदेहमिता व्यासस्थौल्याभ्यां सर्वदेहिनाम् । मरणान्तसमुद्घाते, स्यात्तैजसावगाहना ॥ ३४ ॥ आयामतो विशिष्येत तत्रैकेन्द्रियदेहिनाम् । अङ्गुला संख्येय भागप्रमाणा सा जघन्यतः ॥ ३५ ॥ उत्कर्षतश्च लोकान्ताल्लोकान्तं यावदाहिता । एकेन्द्रियाणां जीवानामेवमुत्पत्तिसंभवात् ॥ ३६ ॥ सामान्यतोऽपि जीवानां, विभाव्यैतदपेक्षया । लोकान्तावधि लोकान्तात्तेजसस्यावगाहना ॥ ३७ ॥ अङ्गुलासंख्यभागेन, प्रमिताऽथ जघन्यतः । निर्दिष्टा विकलाक्षाणां तैजसस्यावगाहना ॥ ३८ ॥ तिर्यग्लोकाच्च लोकान्तावधि तेषां गरीयसी । संभवो विकलाक्षाणां, यत्तिर्यग्लोक एव हि ।। ३९ ।। अधोलोकेऽप्यधोलोकग्रामेषु दीर्घिकादिषु । ऊर्द्ध च पाण्डवन वर्त्तिवापीहदादिषु ॥ ४० ॥ संभवो विकलाक्षाणां यद्यप्यस्ति तथापि हि । सूत्रे स्वस्थानमाश्रित्य, तिर्यग्लोको निरूपितः ॥ ४१ ॥ तत उक्ताऽतिरिक्ताऽपि, विकलानां भवत्यसौ । अधोग्रामात्पाण्डकाच्च, लोकाग्रान्ता गरीयसी ॥ ४२ ॥ सातिरेकं योजनानां सहस्रं स्याज्जघन्यतः । नार| काणां तैजसावगाहना साऽथ भाव्यते ॥ ४३ ॥ संति पातालकलशाश्चत्वारोऽन्धौ चतुर्दिशम् । अधो लक्षं योजनानामवगाढा इह क्षितौ ॥ ४४ ॥ सहस्रयोजनस्थूलकुड्यास्तेषां च निश्चिते । अधस्तने तृतीयांशे, वायुवर्वति केवलम् ॥ ४५ ॥ मध्यमे च तृतीयांशे, मिश्रितौ सलिलानिलौ । तथोपरितने भागे, तृतीये केवलं ational For Private & Personal Use Only १० १४ w.jainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy