________________
प्रदेशसंख्याकृतो विशेषः । आद्यं तिर्यग्मनुष्याणां देवनारकयोः परम् । केषाञ्चिलब्धिमद्वायुसंज्ञितिर्यगनृणामपि ॥ १३ ॥ आहारकं सलब्धीनां, स्याच्चतुर्दशपूर्विणाम् । सर्वसंसारिजीवानां, ध्रुवे तैजसकार्मणे ॥ १४ ॥ तत्वार्थभाष्ये तूक्तं- "एके त्वाचार्या नयवादापेक्षं व्याचक्षते - कार्मणमेवैकमना दिसंबन्धं, तेनैवैकेन जीवस्या - नादिः संबन्धो भवतीति, तैजसं तु लब्ध्यपेक्षं भवति, सा च तैजसलब्धिर्न सर्वस्य, कस्यचिदेव भवति, एतट्टीकालेशोऽपि - एवमेकीयमतेन प्रत्याख्यातमेव तैजसमनादिसंबन्धतया, सर्वस्य चेति, या पुनरभ्यवहृताहारं प्रति पाचनशक्तिः विनाऽपि लब्ध्या सा तु कार्मणस्यैव भविष्यति, कर्मोष्णत्वात्, कार्मणं हीदं शरीरमनेकशक्तिगर्भत्वादनुकरोति विश्वकर्मणः, तदेव हि तथासमासादितपरिणति व्यपदिश्यते यदि तैजसशरीरतया ततो न कश्चिद्दोष इति" । अत्र भूयान् विस्तरोऽस्ति, स तु तत्त्वार्थवृत्तेरवसेय इति । युगपञ्चैकजीवस्य द्वयं त्रयं चतुष्टयम् । स्याद्देहानां न तु पञ्च, नाप्येकं भववर्त्तिनः ॥ १५ ॥ वैक्रियस्याहारकस्यासत्त्वा | देकस्य चैकदा । न पञ्च स्युः सदा सत्वादन्त्ययोर्नैकमप्यदः ॥ १६ ॥ स्यादेकमपि पूर्वोक्तमतान्तरव्यपेक्षया । भवान्तरं गच्छतस्तन्मते स्यात्कार्मणं परम् ॥ १७ ॥ इति स्वामिकृतो विशेषः । आद्यस्य तिर्यगुत्कृष्टा, गति -
१ उष्मादिलिङ्गकारणाहारपाकजनकतया पराभिमतकार्योत्पादकतयेत्यर्थः तथाच न पार्थक्यं तन्मते । समुद्घातहेतुर्न सर्वस्येति तत्त्वं ।
Jain Educaemational
For Private & Personal Use Only
११
www.jainelibrary.org