SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ लोक. द्रव्य. ३ सर्गः ॥ २१ ॥ कार्मणानुगमाहारपरिपाकसमर्थकम् ॥ १ ॥ अस्मात्तपोविशेषोत्थलब्धियुक्तस्य भूस्पृशः । तेजोलेश्यानिर्गमः स्यादुत्पन्ने हि प्रयोजने ॥ २ ॥ तथोक्तं जीवाभिगमवृत्तौ - "संवस्स उम्हसिद्धं, रसाइआहारपागजणगं च । ते अगलद्धिनिमित्तं च तेअगं होइ नाय || ३ ||" अस्मादेव भवत्येव, शीतलेश्याविनिर्गमः । स्यातां च रोषतोषाभ्यां निग्रहानुग्रहावितः ॥ ४ ॥ तथोक्तं तत्त्वार्थवृत्तौ “यदोत्तरगुणप्रत्यया लब्धिरुत्पन्ना भवति तदा परं प्रति दाहाय विसृजति रोषविषाध्मातो, गोशालादिवत् प्रसन्नस्तु शीततेजसाऽनुगृह्णातीति । क्षीरनीरवदन्योऽन्यं, श्लिष्टा जीवप्रदेशकैः । कर्मप्रदेशा येऽनन्ताः, कार्मणं स्यात्तदात्मकम् ॥ ५ ॥ सर्वेषामपि देहानां हेतुभूतमिदं भवेत् । भवान्तरगतौ जीवसहायं च सतैजसम् ॥ ६ ॥ नन्वेताभ्यां शरीराभ्यां सहात्माऽऽयाति याति चेत् । प्रविशन्निरयन्वाऽपि कुतोऽसौ तर्हि नेक्ष्यते ? ॥ ७ ॥ अत्रोच्यते-न चक्षुर्गोचरः सूक्ष्मतया तैजसकार्मणे । ततो नोत्पद्यमानोऽपि, म्रियमाणोऽप्यसौ स्फुटः ॥८॥ तथोक्तं " अन्तरा भवदेहोऽपि, सूक्ष्मत्वान्नोपलभ्यते । निष्क्रामन् प्रविशन्वाऽपि नाभावोऽनीक्षणादपि” ॥ ९ ॥ स्वरूपमेवं पञ्चानां देहानां प्रतिपादितम् । कारणादिकृतांस्तेषां विशेषान् दर्शयाम्यथ ॥ १० ॥ संजातं पुलैः स्थूलैर्देहमौदारिकं भवेत् । सूक्ष्मपुद्गलजातानि ततोऽन्यानि यथोत्तरम् ॥ ११ ॥ इति कारणकृतो विशेषः । यथोत्तरं प्रदेशैः स्युरसंख्येयगुणानि च । आतृतीयं ततोऽनन्तगुणे तैजसकार्मणे ॥ १२ ॥ इति Jain Education International For Private & Personal Use Only शरीरस्वरूपं १५ २० ॥ २१ ॥ २५ jainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy