SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ 2002020rnorace त्पन्नः पश्चादाशु सर्वाल्पजीवितमन्तर्मुहर्त्त विहाय शेषमायुस्विपल्योपमस्थितिकमपवर्त्तयत्यन्तच्हौनमिति । सुरनैरयिकासंख्यजीवितिर्यमनुष्यकाः । बध्नन्ति षण्मासशेषायुषोऽयभवजीवितम् ॥ ११ ॥ मतान्तरेणोत्कर्षतः षण्मासावशेषे जघन्यतश्चान्तमुहर्तशेषे नारकाः परभवायुर्वघ्नन्तीति भग० शत०१४ उ०१। निजायुषस्तृतीयेशे, शेषेऽनुपक्रमायुषः । नियमादन्यजन्मायुर्निबध्नन्ति परे पुनः ॥ ९२ ॥ यावत्यायुष्यवशिष्टे, परजन्मायुरय॑ते । कालस्तावानबाधाख्यस्ततः परमुदेति तत् ॥९३॥ इति भवस्थितिः ७॥ कायस्थितिस्तु पृथिवीकायिकादिशरीरिणाम् । तत्रैव कायेऽवस्थानं, विपद्योत्पद्य चासकृत् ॥ ९४ ॥ इति कायस्थितिखरूपं ८। औदारिक वैक्रियं च, देहमाहारकं तथा। तैजसं कार्मणं चेति, देहाः पञ्चोदिता जिनैः ॥१५॥ उदारैः पुद्गलैर्जातं, जिनदेहाद्यपेक्षया । उदारं सर्वतस्तुङ्गमिति चौदारिकं भवेत् ॥९६॥ क्रिया विशिष्टा नाना वा, विक्रिया तत्र संभवम् । स्वाभाविकं लब्धिजं च, द्विविधं वैक्रियं भवेत् ॥९७॥ यत्तदेकमनेक वा, दीर्घ इस्वं महल्लघु । भवेद् दृश्यमदृश्यं वा, भूचरं वापि खेचरम् ॥९८॥ आकाशस्फटिकस्वच्छं, श्रुतकेवलिना कृतम् । अनुत्तरामरेभ्योऽपि, कान्तमाहारकं भवेत् ॥ ९९ ॥ श्रुतावगाहाप्तामौषध्यावृद्धिः करोत्यदः । मनोज्ञानी चारणो वोत्पन्नाहारकलब्धिकः ॥ १००॥ तैजसं चोष्णतालिङ्गं, तेजोलेश्यादिसाधनम् । I १ चिन्त्यमिदं, यतो मनःपर्यवज्ञानिपृष्टप्रत्युत्तराय मनःपरिणतिर्द्रव्यतस्तीर्थकृतामित्यभियुक्तोक्तिः, एवं चारणेष्वपि गमनसामर्थ्यात्, अश्रुतत्वाच तेषां तस्य, ऋद्धिदर्शनप्राणियार्थमेव परं तस्य संभवः OAD202002020 Jain Education International For Private & Personal Use Only @ ainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy