SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ॥३४॥ देविंदचकवहित्तणाई मोत्तुं च तित्थयरभावं । अणगारभावियाविय, सेसाओ अणंतसो पत्ता ॥३५॥ इतियोनिखरूपं । कुलानि योनिप्रभवान्याहुस्तानि बहून्यपि । भवन्ति योनावेकस्यां, नानाजाती यदेहिनाम् ॥६६॥ कृमिवृश्चिककीटादिनानाक्षुद्राङ्गिनां यथा । एकगोमयपिण्डान्तः, कुलानि स्युरनेकशः ॥३७॥ कोट्येका ससनवतिर्लक्षाः सार्धा भवन्ति हि । सामान्यात्कुलकोटीन, विशेषो वक्ष्यतेऽग्रतः ॥ ६८॥ इति योनिकुलस्वरूपं ४-५ तत्संवृतत्वादि च ६॥ भवस्थितिस्तद्भवायुर्द्विविधं तच्च कीर्तितम् । सोपक्रमं स्यात्तत्राद्यं, द्वितीयं निरुपक्रमम् ॥ ६९॥ कालेन बहुना वेद्यमप्यायुर्यत्तु भुज्यते । अल्पेनाध्यवसानाद्यैरागमोक्तैरुपक्रमैः ॥७॥ आयुः सोपक्रमं तत्स्या-1 दन्यद्वा कर्म तादृशम् । यद्वन्धसमये बद्धं, श्लथं शक्यापवर्तनम् ॥७१॥ युग्मम् । दत्ताग्निरेकतो रज्जुर्यथा दीीकृता क्रमात् । दह्यते संपिण्डिता तु, सा झटित्येकहेलया ॥७२॥ यत्पुनर्बन्धसमये, बद्धं गाढनिकाचनात् । क्रमवेद्यफलं तद्धि, न शक्यमपवर्तितुम् ॥७३॥ क्षीयतेऽध्यवसानाद्यैः खोत्थैः खस्य जीवितम् ।। परैश्च विषशस्त्राय॑स्ते स्युः सर्वेऽप्युपक्रमाः ॥ ७४ यदाहु:-"अज्झवसाण निमित्त आहारे वेयणा पराघाए । फासे आणपाणू, सत्तविहं जिज्झए आउं॥७५॥" त्रिधा तत्राध्यवसानं, रागस्नेहभयोद्भवम् । व्यापादयन्ति | रागाद्या, अप्यत्यन्तविकल्पिताः॥७६ ॥ यथा प्रपापालिकाया, युवानमनुरागतः। पश्यन्त्याः क्षीणमायुर्यकामस्यान्त्या दशा मृतिः ॥७७॥ यतः-"चिंतेइ १ दहमिच्छह २ दीहं नीससइ ३ तह जरे ४ दाहे ५॥ १४ Jain Educ a tional For Private & Personel Use Only www.jainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy