________________
लो.प्र. ४
Jain Education
स्थानं तद्योनिरित्याहुः ॥ ४३ ॥ तथा च-व्यक्तितोऽसङ्ख्य भेदास्ताः, संख्या नैव यद्यपि । तथाऽपि समवर्णादिजातिभिर्गणनां गताः ॥४४॥ तथोक्तं प्रज्ञापनावृत्तौ - "केवलमेव विशिष्टवर्णादियुक्ताः संख्यातीताः स्वस्थाने व्यक्तिभेदेन योनयो जातिं अधिकृत्य एकैव योनिर्गण्यते" । लक्षाश्चतुरशीतिश्च सामान्येन भवन्ति ताः । विशेषान्तु यथास्थानं, वक्ष्यन्ते खामिभावतः ॥ ४५ ॥ किंच-संवृता विवृता चैव, योनिर्विवृतसंवृता । दिव्यशय्यादिवदस्त्राद्यावृता तत्र संवृता ॥ ४६ ॥ तथा विस्पष्टमनुपलक्ष्यमाणाऽपि संवृता । विवृता तु स्पष्टमुपलक्ष्या जलाशयादिवत् ॥ ४७ ॥ उक्तोभयस्वभावा तु, योनिर्विवृतसंवृता । बहिर्डश्याऽदृश्यमध्या, नारीगर्भाशयादिवत् ॥ ४८ ॥ तृतीययोनिजाः स्तोकास्ततो द्वितीययोनयः । असंख्यन्नास्ततोऽनन्तगुणिताः स्युरयोनयः ॥ ४९ ॥ तेभ्योऽप्यनन्तगुणिताः ख्याताः प्रथमयोनयः । एवं शीतस चित्तादिष्वप्यल्पबहुतोद्यताम् ॥ ५० ॥ शीता चोष्णा च शीतोष्णा, तत्तत्स्पर्शान्वयात्रिधा । सचित्ताऽचित्तमिश्रेति, भेदतोऽपि त्रिधा भवेत् ॥ ५१ ॥ जीव प्रदेशैरन्योऽन्यानुगमेनोररीकृता । जीवद्देहादिः सचित्ता, शुष्ककाष्ठादिवत्परा ॥ ५२ ॥ अत एवाङ्गिभिः सूक्ष्मैस्त्रैलोक्ये निचितेऽपि हि । न तत्प्रदेशैयनीनामचित्तानां सचित्तता ॥ ५३ ॥ सचित्ताचित्तरूपा तु, मिश्रा योनिः प्रकीर्त्तिता । नृतिरश्चां यथा योनौ, शुक्रशोणितपुद्गलाः ॥ ५४ ॥ आत्मसाद्विहिता ये स्युस्ते सचित्ताः परेऽन्यथा । सचित्ताचित्तयोगे तद्योनेर्मिश्रत्वमाहितम् ॥ ५५ ॥ “ योषितां किल नाभेरधस्ताच्छिराद्वयं पुष्पमालावैकक्ष्यकाकारमस्ति, तस्याधस्तादधोमुख संस्थित को शाकारा योनिः, तस्याश्च बहिश्रूतकलि
tional
For Private & Personal Use Only
१०
१४
www.jainelibrary.org