SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ लोक द्रव्य ३ सर्गः पवाप्तिस्वरूप 0000000000000000000000 निजस्थानो-पपातैः स्थानकं त्रिधा २॥६॥ पर्याप्ता व्यपदिश्यन्ते, याभिः पर्याप्तयस्तु ताः। पर्याप्तापर्यातभेदा-दत एव द्विधाऽगिनः॥७॥ पर्याप्तयः खयोग्या यैः, सकलाः साधिताः सुखम् । पर्याप्सनामकर्मानुभावात्पर्याप्तकास्तु ते ॥८॥ द्विधाऽमी लब्धिकरण-भेदात्तत्रादिमास्तु ये । समाप्य वाहपर्याप्तीप्रिंयन्ते नान्यथा ध्रुवम् ॥९॥ करणानि शरीराक्षा-दीनि निर्वतितानि यैः । ते स्युः करणपर्याप्साः, करणानां समर्थनात् ॥ १०॥ अपर्याप्ता द्विधा प्रोक्ता, लब्ध्या च करणेन च । द्वयोर्विशेषं शृणुत, भाषितं गणधारिभिः ॥११॥ असमाप्य खपर्याप्ती-म्रियन्ते येऽल्पजीविताः । लब्ध्या ते स्युरपर्याप्ता, यथा निःखमनोरथाः॥१२॥ निर्वतितानि नायापि, प्राणिभिः करणानि यैः। देहाक्षादीनि करणाऽपर्याप्सास्ते प्रकीर्तिताः॥१३॥ म्रियन्तेऽल्पायुषो लब्ध्य-पर्याप्ता इह येऽङ्गिनः । तेऽपि भूत्वैव करण-पर्याप्ता नान्यथा पुनः ॥१४॥ याऽऽहारादिपुद्गलानामादानपरिणामयोः । जन्तोः पर्याप्तिनामोत्था, शक्तिः पर्याप्तिरत्र सा ॥ १५॥ पुद्गलोपचयादेव, भवेत्सा सा च षड़िधा । आहाराङ्गेन्द्रियश्वासोच्छासभाषामनोऽभिधाः ॥१६॥ तत्रैषाऽऽहारपर्याप्तिर्ययाऽऽदाय निजोचितम् । पृथक्खलरसत्वेनाहारं परिणतिं नयेत् ॥ १७॥ वैक्रियाहारकौदारि-काङ्गयोग्यं यथोचितम् । तं रसीभूतमाहारं, यया शक्त्या पुनर्भवी ॥१८॥ रसामुग्मांसमेदोऽस्थि-मजशुक्रादिधातु १ विहिते शरीराक्षाख्ये, करणे यैस्तु जन्तुभिः इति सम्यक्, करणापर्याप्तानामायुषोऽबन्धात् २ मरिष्यन्त्यल्पजीविता: ३ विरोधग्रस्त | आदिशब्दः ४ जोएण कम्मएणं आहारेइ अणंतरं जीवो। ॥१७॥ Jain Education na For Private & Personel Use Only awejainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy