________________
लोक. द्रव्य. २ सर्गः
॥ १६ ॥
शिवसौख्यस्य समतां लभते न कदाचन ॥ ४५ ॥ सर्वाद्धापिण्डितः सिद्ध-सुखराशिर्विकल्पतः । अनन्तवभक्तोऽपि न मायाद् भुवनत्रये ॥४६॥ वर्गविभागश्चैवं स्युः षोडश चतुर्भक्ताश्चत्वारो वर्गभागतः । द्वावेव परिशिष्येते, चत्वारोऽपि द्विभाजिताः ॥ ४७ ॥ सुखस्य तस्य माधुर्यं, कलयन्नपि केवली । वक्तुं शक्नोति नो जग्धगुडादेर्मूक देहिवत् ॥ ४८ ॥ यथेप्सितान्नपानादि-भोजनानन्तरं पुमान् । तृप्तः सन् मन्यते सौख्यं, तृप्तास्ते सर्वदा तथा ॥ ४९ ॥ एवमापातमात्रेण, दर्श्यते तन्निदर्शनम् । वस्तुतस्तु तदाह्लादोपमानं नास्ति विष्टपे ॥ ५० ॥ औपम्यस्याप्यविषयस्ततः सिद्धसुखं खलु । यथा पुरसुखं जज्ञे, म्लेच्छवाचामगोचरः ॥ ५१ ॥ तथा चाहुः -
म्लेच्छः कोऽपि महारण्ये, वसति स्म निराकुलः । अन्यदा तव भूपालो, दुष्टाश्वेन प्रवेशिनः ॥ ५२ ॥ म्लेच्छेनासौ नृपो दृष्टः, सत्कृतश्च यथोचितम् । प्रापितश्च निजं देशं, सोऽपि राज्ञा निजं पुरम् ॥ ५३ ॥ ममायमुपकारीति, कृतो राज्ञाऽतिगौरवात् । विशिष्टभोगभूतीनां भाजनं जनपूजितः ॥ ५४ ॥ तुङ्गप्रासादशृङ्गेषु रम्येषु काननेषु च । वृतो विलासिनीवृन्दै - र्भुङ्क्ते भोगसुखान्यसौ ॥ ५५ ॥ अन्यदा प्रावृषः प्राप्तौ मेघाडम्बरमम्बरे । दृष्ट्वा मृदङ्गमधुरै गर्जितैः केकिनर्त्तनम् ॥ ५६ ॥ जातोत्कण्ठो दृढं जातोऽरण्यवास गमं प्रति । विसर्जितश्च राज्ञाऽपि प्राप्तोऽरण्यमसौ ततः ॥ ५७ ॥ पृच्छन्त्यरण्यवासास्तं नगरं तात ! कीदृशम् परं नगरवस्तूनामुपमाया अभावतः ॥ ५८ ॥ न शशाकतमां तेषां गदितुं स कृतोद्यमः । एवमतोपमाभावात्, वक्तुं शक्यं न तत्सुखम् ॥ ५९ ॥ सिद्धा बुद्धा गताः पारं परं पारङ्गता अपि । सर्वामनागतामद्वां,
For Private & Personal Use Only
Jain Educationonal
सिद्धसुखवर्णनं
२०
२५
॥ १६ ॥
२८
ainelibrary.org