________________
अन्तरमबहुत्वं
सुखं च
बहुत्वं चेह पञ्चविंशतिरूपं द्रष्टव्यमिति" आद्यसंहनना एव, सिद्ध्यन्ति न पुनः परे । संस्थानानां त्वनियमस्तेषु षट्खपि निवृतिः ॥ ३१॥ पूर्वकोट्यायुरुत्कर्षात्, सिद्ध्येन्नाधिकजीवितः । जघन्यान्नववर्षायुः, सिद्ध्येन्न न्यूनजीवितः॥ ३२॥ द्वात्रिंशदन्ता एकाद्या-श्चेत्सिद्धयन्ति निरन्तरम् । तदाऽष्ट समयान याव-नवमे त्वन्तरं ध्रुवम् ॥ ३३ ॥ अष्टचत्वारिंशदन्ता-स्त्रयस्त्रिंशन्मुखा यदि । सिद्धयन्ति समयान् सप्त, ध्रुवमन्तरमष्टमे ॥३४॥ एकोनपञ्चाशदाद्याः, षष्ट्यन्ता यदि देहिनः । सिद्ध्यन्ति समयान् षट् बै, सप्तमे त्वन्तरं भवेत् ॥ ३५॥ एकषष्टिप्रभृतयो, यावद् द्वासप्ततिप्रमाः। सिद्ध्यन्ति समयान् पञ्च, षष्ठे त्ववश्यमन्तरम् ॥ ३६॥ त्रिसप्त|तिप्रभृतयश्चतुरशीतिसीमकाः । चतुर: समयान् यावत्, सिद्धयन्त्यग्रेतनेऽन्तरम् ॥ ३७॥ पश्चाशीत्याद्याः क्षणांस्त्रीन् , यान्त्याषण्णवतिं शिवम् । क्षणी सप्तनवत्याद्या, द्वौ च द्वयात्यशतावधि ॥ ३८॥ त्रयाधिकशताद्याश्चे-द्यावदष्टोत्तरं शतम् । सिद्ध्यन्ति चैकसमयं, द्वितीयेऽवश्यमन्तरम् ॥ ३९ ॥ जघन्यमन्तरं त्वेक-समयं परमं पुनः । षण्मासान् नास्ति सिद्धानां, च्यवनं शाश्वता हि ते ॥४०॥ सर्वस्तोकाः क्लीबसिद्धास्तेभ्यः सङ्ख्यगुणाधिकाः। स्त्रीसिद्धाः पुनरेभ्यः पुं-सिद्धाः सङ्ख्यगुणाधिकाः ॥४१॥ सर्वस्तोका दक्षिणस्यामुदीच्यां च मिथः समाः। प्राच्यां संख्यगुणाः पश्चि-मायां विशेषतोऽधिकाः ॥४२॥ न तत्सुखं मनुष्याणां, देवानामपि नैव तत् । यत्सुखं सिद्धजीवानां, प्राप्तानां पदमव्ययम् ॥४३ ॥ त्रैकालिकानुत्तरान्तनिर्जराणां त्रिकालजम् । भुक्तं भोग्यं भुज्यमान-मनन्तं नाम यत्सुखम् ॥४४॥ पिण्डीकृतं तदेकत्रानन्तैवगैश्च वर्गितम् ।
ॐPOROTOS2018 Season970
Jain Educ
e rational
For Private Personal use only
ww.jainelibrary.org