________________
लोक द्रव्य. २ सर्गः ॥ १५ ॥
तुष्टयी । आगमे गीयते सर्व - मध्यानां सोपलक्षणम् ॥ २४ ॥ प्राच्ये जन्मनि जीवानां, या भवेदवगाहना: । तृतीयभागन्यूना सा, सिद्धानामवगाहना ॥ २५ ॥ उत्कृष्टा च भवे प्राच्ये, धनुःपञ्चशती मिता । मध्यमा च बहुविधा, जघन्या हस्तयोर्द्वयम् ॥ २६ ॥ जघन्या सप्तहस्तैव, जिनेन्द्राणामपेक्षया । त्र्यंशोनत्वे किलैतासां ताः स्युः सिद्धावगाहनाः ॥ २७ ॥ एतदभिप्रेत्यैवोपपातिकोपाने उक्तं - "जीवा णं भंते! सिज्झमाणा कयरंमि उचत्ते सिज्झति ?, गोयमा ! जहण्णेणं सत्तरयणीय, उक्कोसेणं पंचधणुसइए सिज्झति" । मरुदेवा कथं सिद्धा, नन्वेवं जननी विभोः ? | साग्रपञ्चचापशतो- तुङ्गा नाभिसमोच्छ्रया ॥ २८ ॥ 'संघयणं संठाणं, उच्चत्तं चैव कुलगरेहिं समं' इतिवचनात्, अत्रोच्यते- स्त्रियो युत्तमसंस्थानाः पुंसः कालाई संस्थितेः । किञ्चिदूनप्रमाणाः स्युर्नाभेरूनोच्छ्रयेति सा ॥ २९ ॥ गजस्कन्धाधिरूढत्वान्मना क्रू संकुचितेति वा । पञ्चचापशतोच्चैव, सेति किञ्चिन्न दूषणम् ॥ ३० ॥ अयं च भाष्यकृदभिप्रायः । संग्रहणीवृत्त्यभिप्रायस्त्वयं-पदिदमागमे पञ्चधनुःशतान्युत्कृष्टं मानमुक्तं तद्वाहुल्यात्, अन्यथैतद् धनुःपृथक्त्वैरधिकमपि स्यात्, तच्च पञ्चविंशत्यधिकपञ्चधनुः शतरूपं बोद्धव्यं, सिद्धप्राभृतेऽप्युक्तं - "ओगाहणा जहण्णा, रयणिदुगं अह पुणाइ उक्कोसा। पंचेव धणुसयाई, धणुअपुहुत्तेण अहियाइति ॥ १ ॥ एतद्वृत्तिश्च पृथत्तवशब्दोऽत्र बहुत्ववाची,
१ तीर्थकरानाश्रित्य सा, यतो जघन्यतस्ते सप्तकरा एव २ अवगाहनानां ३ पूर्वोक्ताः ४ भाष्यं मरुदेवाश्रितं एतत्तु ऊर्ध्वबाहूत्कृष्टतनोः
Jain Educationtional
For Private & Personal Use Only
सिद्धानामवगाहनाः
२०
॥ १५ ॥ २४
Mainelibrary.org