________________
यावत्खाकाशप्रदेशेष्विहावगाढस्तावत एव प्रदेशानूर्द्धमप्यवगाहमानो गच्छतीति पञ्चसंग्रहवृत्तौ। तदन्त्र ऊर्बलोकातत्त्वं केवलिंगम्यम् । एकस्मिन्समये चोर्द्ध-लोके चत्वार एव ते । सिद्ध्यन्त्युत्कर्षतो दृष्ट-मधोलोके 81 |दौ सिद्धमतत्रयम् ॥ ९६॥ विंशतिर्द्वाविंशतिश्च, चत्वारिंशदिति स्फुटम् । उत्तराध्ययने संग्र-हण्यां च सिद्धप्राभृते
संख्या ॥९७ ॥ 'वीस अहे तहेवेति' उत्तराध्ययने जीवाजीवविभक्त्यध्ययने । 'उड्डहोतिरियलोए चउबावीसहसयं' इति संग्रहण्यां। वीसपुहुत्तं अहोलोए' इति सिद्धप्राभृते, तट्टीकायां विंशतिपृथक्त्वं-द्वे विंशती इति ॥ अष्टोत्तरशतं तिर्यग्-लोके च द्वौ पयोनिधौ । नदीनदादिके शेष-जले चोत्कर्षतस्त्रयः ॥९८॥ विंशतिश्चैकविजये, चत्वारो नन्दने वने । पण्डके द्वावष्टशतं, प्रत्येकं कर्मभूमिषु ॥ ९९ ॥ प्रत्येक संहरणतो, दशाकर्ममहीष्वपि । पञ्च चापशतोचौ द्वौ, चत्वारो द्विकराङ्गकाः ॥१००॥ जघन्योत्कृष्टदेहानां, मानमेतन्निरूपितम् । मध्याङ्गास्त्वेकसमये, सिद्ध्यन्त्यष्टोत्तरं शतम् ॥१.१॥ उत्सर्पिण्यवसर्पिण्यो-स्ताीयीकतुरीययोः। अरयोरष्टसहितं, सिध्यन्त्युत्कर्षतः शतम् ॥२॥ यत्त्वस्या अवसर्पिण्यास्तृतीयारकप्रान्ते श्रीऋषभदेवेन सहाष्टोत्तरं शतं सिद्धास्तदाश्चर्यमध्येऽन्तर्भवतीति समाधेयं ।-विंशतिश्चावसर्पिण्या:, सिद्धयन्ति पञ्चमेऽरके। उत्सर्पिण्यवसर्पिण्योः, शेषेषु दश संहृताः॥२॥ पुंवेदेभ्यः सुरादिभ्य-श्च्युत्वा जन्मन्यनन्तरे । भवन्ति पुरुषाः केचित्, स्त्रियः केचिन्नपुंसकाः॥३॥ स्त्रीभ्योऽपि देव्यादिभ्यः स्यु-रेवं त्रेधा महीस्पृशः । क्लीवेभ्यो नारकादि१ दोवीसन्ति पाठे मतत्रयी २ उत्कृष्टावगाहनास्ते यतः, उत्कृष्टावगाहनापेक्षयैवाश्चर्यरूपत्वात् , मध्याङ्गानां त्वष्टशतस्य सिद्धिः स्यादेव,
02020
Jain Educatiemational
For Private & Personel Use Only
Cvw.jainelibrary.org