SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ लोक द्रव्य. सगे: कर्षशतं, तौल्ये कर्षाधिकं न तत् ॥४७॥ पुनरौषधसामर्थ्यात्तदद्वयं जायते पृथक् । सुवर्णस्य कर्षशतं, पार- धर्मादेर्भेदाः दस्यैककर्षकः॥४८॥ इत्यर्थतो भगवतीशतक १३ उ०४ वृत्तौ ॥ किंच-धर्मास्तिकायस्तदेशस्तत्प्रदेश इति त्रयम् । एवं त्रयं त्रयं ज्ञेयमधर्माभ्रास्तिकाययोः॥४२॥ तत्रास्तिकायः सकलखप्रदेशात्मको भवेत् । कियन्मात्रांशरूपाश्च, तस्य देशाः प्रकीर्तिताः॥५०॥ स्कन्दन्ति-शुष्यन्ति पुद्गलविचटनेन, धीयन्ते च-पुष्यन्ते पुद्गलचटनेनेति स्कन्धाः 'पृषोदरादयः (३-२-१५५) इति रूपनिष्पत्तिः, इति प्रज्ञापनावृत्ती व्युत्पादितत्वा-ISH देते स्कन्धव्यपदेशं नाहन्ति, अत एव सूत्रे प्रायः 'धम्मत्थिकाए धम्मत्थिकायस्स देसे' इत्याद्येव श्रूयते ॥ नवतत्त्वावचूरी तु चतुर्दशरज्ज्वात्मके लोके सकलोऽपि यो धर्मास्तिकायः स सर्वः स्कन्धः कथ्यते इत्युक्तमितिज्ञेयं । निर्विभागा विभागाच, प्रदेशा इत्युदाहृताः । ते चानन्तास्तृतीयस्यासंख्येया आद्ययोद्धयोः ॥५१॥ अनन्तश्चागुरुलघुपर्यायैः संश्रिता इमे । त्रयोऽपि यदमूर्तेषु, संभवन्त्येत एव हि ॥५२॥ अथ जीवास्तिकायस्य, खरूपं वच्मि तस्य च । चेतनालक्षणो जीव इति सामान्यलक्षणम् ॥ ५३॥ मतिश्रुतावधिमनःपर्यायकेवलान्यपि । मत्यज्ञानं श्रुताज्ञान, विभङ्गज्ञानमित्यपि ॥५४॥ अचक्षुश्चक्षुरवधिकेवलदर्शनानि च । द्वादशामी उपयोगा, विशेषाजीवलक्षणम् ॥५५॥ उपयोगं विना कोऽपि, जीवो नास्ति जगत्- ॥११॥ १ उत्तराध्ययनबृहद्वृत्तौ धर्मास्तिकायादीनां स्कन्धता स्पष्टैव ( संयोगपदनिर्युक्तौ॰) । प्रज्ञापनीया स्कन्धव्युत्पत्तिः पुद्गलस्कन्धप्रकरणगता, अनुयोगे तत्त्वार्थे च जीवराशेरपि स्कन्धतोता । अन्यथा कायशब्दोऽपि चिन्त्य एव । NIRMIRELIERHITA WAIME Inn Educa t ional For Private & Personal Use Only jainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy