SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ 9990 त्रये । अक्षरानन्तभागो यद्व्यक्तो निगोदिनामपि ॥५६॥ तं चाक्षरानन्तभागमपि त्रैलोक्यवर्तिनः।न शक्नुवन्त्यावरितुं, पुद्गलाः कर्मतां गताः ॥५७॥ एषोऽप्यात्रियते चेत्तत्, स्थाजीवाजीवयोन भित् । अक्षरंभागोडाटा विह साकारतरोपयोगलक्षणम् ॥ ५८॥रवेर्यथाऽतिसान्द्राभ्रच्छन्नस्यापि भवेत्प्रभा । कियत्यनावृता रात्रिदिनाभेदोऽन्यथा भवेत् ॥५९॥ इयं चाल्पीयसी ज्ञानमात्राऽऽद्यसमये भवेत् । अपर्याप्त निगोदानां, सूक्ष्मांणां मतस्ततः॥६०॥ शेषैकाक्षद्वित्रिचतुष्पञ्चाक्षादिषु मात्रया । वर्धमानेन्द्रिययोगलब्धिवृद्धिव्यपेक्षया ॥३१॥ क्षयोपशमवैचित्र्यानानारूपाणि बिभ्रती । सर्वज्ञेयग्राहिणी स्याद्, घातिकर्मक्षयेण सा ॥ ६२॥ नन्वेवमात्मनो ज्ञानं, यदि लक्षणमुच्यते । अभेदः स्यात्तदनयोः, सालावृषभयोरिव ॥६३॥ एवं चास्य सदा ज्ञानमिष्यतेऽखिलवस्तुगम् । ज्ञानरूपो न जानातीत्येतद्युक्तिसहं न यत् ॥ ६४॥ कथं च ज्ञानरूपस्यात्मनः स्युः संशयस्तथा । अव्यक्तबोधाबोधौ च, किश्चिद्वोधविपर्ययाः१॥६५॥ अत्रोच्यते-सत्यप्यस्य चिदात्मत्वे, नोपयोगो निरन्तरम् । भवत्यावरणीयानां, कर्मणां वशतः खलु ॥६६॥ तथाहि-आत्मा सर्वप्रदेशेषु, त्यक्त्वांशानष्टमध्यगान् । प्रक्वथ्यमानोदकवत्सदा विपरिवर्त्तते ॥ ६७ ॥ ततः स चिरमेकस्मिन्न वस्तुन्युपयुज्यते । अर्थान्तरोपयुक्तः स्याचपलः कृकलासवत् ॥ ६८ ॥ उत्कर्षेणोपयोगस्य, कालोऽप्यान्तर्मुहर्तिकः । उपKI १ सुयकेवलक्खराणं ( ४९६ वि० ) तस्स उ अणंतभागो (४९१ वि०)।२ लब्ध्या। ३ जघन्ययोगिनां । ४ अंशेन । ५ ज्ञानात्मनोः ६ कम्बल ७ नाविर्भावेन. ८ केवलिनामप्यात्मप्रदेशानां चलत्वाञ्चिन्त्यमेतत् । Jain Educ tional a HOM For Private Personal Use Only Tww.jainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy