SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ eeeee अनेकद्र ततस्तदस्थिमज्जादि, तन्नामापि गतं क्रमात् ॥ ३५॥ अस्मिंश्च समये कश्चित्सर्वज्ञं यदि पृच्छति । खामिस्तेषां किमगतं, क्षेत्रं किंवा गतं बहु ? ॥ ३६॥ तदा वदति सर्वज्ञो, गतमल्पं परं बहु । अगतस्यानन्ततमो, भागो व्यावगागतमिहोह्यताम् ॥ ३७॥ स्थित्वा सुरोऽपि लोकान्ते, नालोके खकरादिकम् । ईष्टे लम्बयितुं गत्यभावा-SI हसिद्धिः त्पुद्गलजीवयोः॥ ३८ ॥ तदुक्तम्-"देवे णं भंते ! महिड्डिए जाव महेसक्खे लोगंसि हत्थं वा पायं वा जाव ऊरं वा आउंटावित्तए वा पसारित्तए वा?, णो इणढे सम?" ॥ इति भग० शतक १६ उद्दे०८॥ वस्तुतस्तु ५ नभोद्रव्यमेकमेवास्ति सर्वगम् । धर्मादिसाहचर्येण, द्विधा जातमुपाधिना ॥ ३९ ॥ लोकालोकप्रमाणत्वात्, क्षेत्रतोऽनन्तमेव तत् । असङ्ख्येयप्रमाणं च, परं लोकविवक्षया ॥४०॥कालतः शाश्वतं वणोंदिभिर्मुक्तं च भावतः। अवगाहगुणं तच्च, गुणतो गदितं जिनैः ॥ ४१ ॥ अवकाशे पदार्थानां, सर्वेषां हेतुतां दधत् । शर्कराणां दुग्धमिव, वह्वेर्लोहादिगोलवत् ॥ ४२ ॥ युग्मं ॥ यतः-परमाण्वादिना द्रव्येणैकेनापि प्रपू. यते । खप्रदेशस्तथा द्वाभ्यामपि ताभ्यां तथा त्रिभिः ॥४३॥ अपि द्रव्यशतं मायात्तत्रैवैकप्रदेशके । मायाकोटिशतं मायादपि कोटिसहस्रकम् ॥ ४४ ॥ अवगाहखभावत्वादन्तरिक्षस्य तत्समम् । चित्रत्वाच|| पुद्गलानां, परिणामस्य युक्तिमत् ॥ ४५॥ द्वयोरपि क्रमाद् दृष्टान्तौ-दीप्रदीपप्रकाशेन, यथाऽपवरकोदरम् । एकेनापि पूर्यते तच्छतमप्यत्र माति च ॥ ४६॥ तथा-विशत्यौषधसामर्थ्यात्पारदस्यैककर्षके । सुवर्णस्य १ लोकान्ते. (लोगसि ठिच्चा पभू अलोगंसि हत्थं वा० भग० ७७७ ) १४ Jain Education For Private & Personal Use Only Kaw.jainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy