SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ शमहत्ता लोक.द्रव्य. ॥ २१॥ स्थित्युपष्टम्भका हि, जीवपुद्गलयोरयम् । मीनानां स्थलवोनालोके नासौ न तत्स्थितिः ॥ २२ ॥ २ सगे: अयं निषदनस्थानशयनालम्बनादिषु । प्रयाति हेतुतां चित्तस्थैर्यादिस्थिरतासु च ॥ २३ ॥ इदमर्थतो भग श०१३ ॥ गतिस्थितिपरिणामे, सत्येवैतौ सहायकौ । जीवादीनां न चेत्तेषां, प्रसज्येते सदाऽपि ते ॥२४॥ भवेदभ्रास्तिकायस्तु, लोकालोकभिदा द्विधा । लोकाकाशास्तिकायः स्यात्तत्रासङ्ख्यप्रदेशका ॥ २५॥ स भात्यलोकाकाशेन, परीतोऽतिगरीयसा । गोलकं मध्यशुषिरं, महान्तमनुकुर्वता ॥ २६॥ तथोक्तं भगवतीशतक०११ उ०११ “अलोए णं भंते ! किंसंठिए पं०?, गो. झुसिरगोलगसंठिए पं०” इत्यादि । असौ च धर्माधर्माभ्यां, खतुल्याभ्यां सदाऽन्वितः। भूपाल इव मन्त्रिभ्यां, बिभर्ति सकलं जगत् ॥ २७ ॥ अलोकाभ्रं तु धर्माद्यैर्भावैः पञ्चभिरुज्झितम् । अनेनैव विशेषेण, लोकाभ्रात्पृथगीरितम् ॥ २८ ॥ अनन्तस्याप्यस्य पूज्यैमहत्तायां निदर्शनम् । असद्भावस्थापनया, पश्चमाङ्गे प्रकीर्तितम् ॥ २९॥ तथाहि-सुदर्शनं सुरगिरि, परितो निर्जरा दश । केपि कौतुकिनः सन्ति, स्थिता दिक्षु दशस्वपि ॥३०॥ मानुषोत्तरपर्यन्तेऽष्टासु दिक्षु बहिर्मुखाः। बलिपिण्डान् दिक्कुमार्यः, किरन्त्यष्टौ खदिक्ष्वथ ॥ ३१॥ विकीर्णान् युगपत्ताभिस्तान् पिण्डानगतान् क्षितिम् । यया गत्या सुरस्तेषामेकः कोऽप्याहरेद्रयात् ॥ ३२॥ तया गत्याऽथ ते देवा, अलोकान्तदिदृक्षया । गन्तुं प्रवृत्ता युगपद्यदा दिक्षु दशखपि ॥ ३३ ॥ तदा च वर्षलक्षायुः, पुत्रोऽभूत्कोऽपि कस्यचित् । तस्यापि तादृशः पुत्रः, पुनस्तस्यापि तादृशः ॥ ३४ ॥ कालेन तादृशाः सप्त, पुरुषाः प्रलयं गताः । 02020009828200000000000000 ॥१०॥ Jain Educa t ional For Private & Personel Use Only S ainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy