________________
स्मृतः । भावलोकस्तु विज्ञेयो, भावा औयिकादयः ॥ ८ ॥ यदाहुः-ओदइए उवसमिए, खइए अ तहा खओवसमिए अ । परिणाम सन्निवाए, छव्विहो भावलोओत्ति ॥ ९ ॥ इति स्थानाङ्गवृत्तौ -तत्र प्रथमतो द्रव्यलोकः किंञ्चिद्वितन्यते । मया श्रीकीर्त्तिविजयप्रसाद प्राप्तबुद्धिना ॥ १० ॥ धर्मास्तिकाया १ धर्मास्ति-काया २वाकाश ३ एव च । जीव ४ पुद्गल ५ काला ६ च षट् द्रव्याणि जिनागमे ॥ ११ ॥ धर्माधर्मा जीवाख्याः, पुद्गलेन समन्विताः । पञ्चामी अस्तिकायाः स्युः, प्रदेशप्रकरात्मकाः ॥ १२ ॥ अनागतस्यानुत्पत्तेरुत्पन्नस्य च नाशतः । प्रदेशप्रचयाभावात् काले नैवास्तिकायता ॥ १३ ॥ विना जीवेन पञ्चामी, अजीवाः कथिताः श्रुते । पुद्गलेन विना चामी, जिनैरुक्ता अरूपिणः ॥ १४ ॥ धर्मास्तिकायं तत्राह, पञ्चधा परमेश्वरः । द्रव्यतः क्षेत्रतः कालभावाभ्यां गुणतस्तथा ॥ १५ ॥ द्रव्यतो द्रव्यमेकं स्यात्, क्षेत्रतो लोकसम्मितः । कालतः शाश्वतो यस्मादभूद्भाव्यस्ति चानिशम् ॥ १६ ॥ वर्णरूपरसैर्गन्धस्पर्शैः शून्यश्च भावतः । गत्युपष्टम्भधर्मश्च, गुणतः स प्रकीर्त्तितः ॥ १७ ॥ स्वभावतः संचरतां, लोकेऽस्मिन् पुद्गलात्मनाम् । पानीयभिव मीनानां, साहाय्यं कुरुते ह्यसौ ॥ १८ ॥ जीवानामेष चेष्टासु, गमनागमनादिषु । भाषामनोवचः काययोगादिष्वेति हेतुताम् ॥ १९ ॥ अस्यासत्वादलोके हि, नात्मपुद्गलयोर्गतिः । लोकालोकव्यवस्थाऽपि, नाभावेऽस्योपपद्यते ॥ २० ॥ द्रव्यक्षेत्रकालभावैर्धर्मभ्रातेव युग्मजः । स्यादधर्मास्तिकायोऽपि गुणतः किंतु भिद्यते १ समयादिसमूहस्य । २ स्वभावः ।
Jain Educato national
For Private & Personal Use Only
धर्मादेःपंचभेदता
१०
१४
jainelibrary.org