SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Jain Educa स सर्वपाणां निकरः, कल्प्यते चेद्दशात्मकः । प्राग्वद्भ्यासगुणितः, सहस्रकोटिको भवेत् ॥ ७१ ॥ गरिष्टयुक्तासंख्यातादवग् जघन्यतः परम् । मध्यमं जायते युक्तासंख्यातमिति तद्विदः ॥ ७२ ॥ जघन्ययुक्तासंख्यातं प्राग्वदभ्यासताडितम् । हीनमेकेन रूपेण युक्तासंख्यातकं गुरु ॥ ७३ ॥ एतदेव रूपयुक्तमसंख्यासंख्यकं लघु । मध्यासंख्यातासंख्यात-मस्मादुत्कृष्टकावधि ॥ ७४ ॥ जघन्यासंख्यासंख्यातं, भवेदभ्यासताडितम् । एकरूपोनितं ज्येष्ठासंख्या संख्यातकं स्फुटम् ॥ ७५ ॥ अनेकरूपक्षेपे च परीतानन्तकं लघु । मध्यं चास्मात्समुत्कृष्टपरीतानन्तकावधि ॥ ७६ ॥ हखं परीत्ताऽनन्तं च प्राग्वदभ्याससंगुणम् । परीतानन्तकं ज्येष्ठमेकरूपोनितं भवेत् ॥ ७७ ॥ सैकरूपं तज्जघन्ययुक्तानन्तकमीरितम् । परमस्मात्परा चार्वाग, युक्तानन्तं हि मध्यमम् ॥ ७८ ॥ युक्तानन्तं तज्जघन्यमभ्यासपरिताडितम् । निरेकरूपमुत्कृष्टयुक्तानन्तकमाहितम् ॥ ७९ ॥ अत्रैकरूपक्षेपे स्यादनन्तानन्तकं लघु । अस्माद्यदधिकं मध्यानन्तानन्तं च तत्समम् ॥ ८० ॥ उत्कृष्टानन्तानन्तं तु नास्ति सिद्धान्तिनां मते । अनुयोगद्वारसूत्रे, यदुक्तं गणधारिभिः ॥ ८१ ॥ एवमुक्कोसयं अनंताणंतयं नत्थिन्ति । अभिप्रायः समग्रोऽयं, प्रोक्तः सूत्रानुसारतः । अथ कार्मग्रन्थिकानां, मतमत्र प्रपश्यते ॥ ८२ ॥ समद्विघातो वर्गः स्यादिति वर्गस्य लक्षणम् । पञ्चानां वर्गकरणे, यथा स्युः पञ्चविंशतिः ॥ ८३ ॥ जघन्ययुक्तासङ्ख्यातावधि तुल्यं मतद्वये । अतः परं विशेषोऽस्ति स चायं परिभाव्यते ॥ ८४ ॥ १ से किं तं अनंतानंतर ?, अणन्तानंतर दुबिहे पण्णत्ते, तंजहा जहणए अजद्दण्णमणुको सए ( इति अनुयोगद्वारे ५६० ) mational For Private & Personal Use Only युक्तासंख्यातादि ५ १० १४ www.jainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy