SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ परीतासं ख्यातादि १५ लोक द्रव्य.पि, सशिखं पूर्यते ततः॥५६॥ यथोत्तरमथो साक्षि-स्थानाभावादिमे समे। भृताः स्थिता दिक्कनीनां, क्रीडा-1 १ सर्गः समुद्गका इव ॥ ५७॥ यत्रान्तिमायां वेलायां, रिक्तीभूतोऽनवस्थितः । तावन्मानस्तदाऽस्त्येष, त्रयस्त्वन्ये यथोदिताः॥५८॥ अथैतांश्चतुरः पल्यान् , सावकाशे स्थले कचित् । उद्वम्य तत्सर्षपाणां, निचयं रचयेद्धिया ॥ ५९॥ ततश्च जम्बूद्वीपादि-द्वीपवार्धिषु सर्षपान् । उच्चित्य पूर्वनिक्षिप्तां-स्तत्रैव निचये क्षिपेत् ॥३०॥ एकसर्षपरूपेण, न्यूनोऽयं निचयोऽखिलः। भवेदुत्कृष्टसंख्यात-मानमित्युदितं जिनैः॥ ६१॥ एतदुत्कृष्टसंख्यात-मेकरूपेण संयुतम् । भवेत्परीतासंख्यातं, जघन्यमिति तद्विदः ॥ ६२॥ ज्येष्ठात्परीतासंख्यातादवांग जघन्यतः परम् । मध्यं परीताऽसंख्यातं, भवेदिति जिनैः स्मृतम् ॥ ६३ ॥ जघन्ययुक्तासंख्यात-मेकरूपविवर्जितम् । भवेत्परीतासंख्यात-मुत्कृष्टमिति तद्विदः ॥ ६४ ॥ जघन्ययुक्तासंख्यप्रकारश्चायम्-यावत्प्रमाणो यो राशिर्भवेत्स्वरूपसंख्यया । स न्यस्य तावतो वारान्, गुणितोऽभ्यास उच्यते॥६५॥ यथा पश्चात्मको राशिः, पञ्च वारान् प्रतिष्ठितः । मिथः संगुणितो जातः, प्रथमं पञ्चविंशतिः॥६६॥ शतं सपादं |संजातो, गुणितः सोऽपि पञ्चभिः । पुनः संगुणितः पञ्च-विंशानि स्युः शतानि षट् ॥ ६७॥ जातश्चतुर्थवेलाया-मेकत्रिंशच्छतानि सः। पञ्चविंशत्युपचिता-न्यभ्यासगुणितं ह्यदः ॥ ६८॥ ततश्च-प्रागुक्ते सार्षपे पुळे, यावन्तः किल सर्षपाः । तत्संख्यान मुख्यनिचय-तुल्यान् राशीन् पृथक् पृथक् ॥ ६९॥ कृत्वा मिथस्तद्गुणने, यो राशिर्जायतेऽन्तिमः। जघन्ययुक्तासंख्यं तदावलीसमयैः समम् ॥७०॥ इयमत्र भावना ॥७॥ 1 २८ . Jain Educatorianosa For Private & Personel Use Only Yadainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy