SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ लोक. द्रव्य. १ सर्गः 112 11 । जघन्ययुक्ता सङ्ख्यातादारभ्योत्कृष्टकावधि । मध्यमं युक्तासङ्ख्यातं स्यादुत्कृष्टमथोच्यते ॥ ८५ ॥ जघन्ययुक्तासङ्ख्यातं, वर्गितं रूपवर्जितम् । उत्कृष्टयुक्तासङ्ख्यातं प्राप्तरूपैः प्ररूपितम् ॥ ८६ ॥ एकरूपेण युक्तं तदसंख्यासंख्यकं लघु । अर्वागुत्कृष्टतो मध्यमथोत्कृष्टं निरूप्यते ॥ ८७ ॥ जघन्यासंख्या संख्यातं यत्नतो वर्गितं त्रिशः । अमीभिर्दशभिः क्षेपैर्वक्ष्यमाणैर्विमिश्रितम् ॥ ८८ ॥ तचैवं - त्रिंशत्कोटिकोटिसारा, ज्ञानावरणकर्मणः । स्थितिरुत्कर्षतो ज्ञेया, जघन्याऽऽन्तर्मुहर्त्तिकी ॥ ८९ ॥ अनयोरन्तराले च, मध्यमाः स्युरसंख्यशः । आसां बन्धहेतुभूताऽध्यवसाया असङ्ख्यशः ॥ ९० ॥ एवमेवाध्यवसाया, अपरेष्वपि कर्मसु । स्युरसङ्ख्येयलोकाभ्रप्रदेशप्रमिता इमे ॥ ९१ ॥ जघन्यादिभेदवन्तोऽनुभागाः कर्मणां रसाः । तेऽप्यसङ्ख्येयलोकाभ्र- प्रदेशप्रमिताः किल ॥ ९२ ॥ ततश्च - लोकाभ्र १ धर्मा २ धर्मै ३ कजीवानां ४ ये प्रदेशकाः । अध्यवसायस्थानानि, स्थितिबन्धानुभागयोः ५-६ ॥ ९३ ॥ मनोवचः काययोगविभागा निर्विभागकाः ७ | कालचक्रस्य समया ८ स्तथा प्रत्येकजन्तवः ९ ॥ ९४ ॥ अनन्ताङ्गिदेहरूपा, निगोदाश्च १० दशाप्यमून् । त्रिवर्गिते लघ्वसङ्ख्यासज्येऽसङ्ख्यान्नियोजयेत् ॥ ९५ ॥ त्रिशः पुनर्वर्गयेच, भवेदेवं कृते सति । असङ्ख्या सङ्ख्य मुत्कृष्टमेकरूपविनाकृतम् ॥ ९६ ॥ तत्रैकरूपप्रक्षेपे, परीतानन्तकं लघु । परीतानन्तकाज्ज्येष्ठायदवक् तच्च मध्यमम् ॥ ९७ ॥ अभ्यासगुणिते प्राग्वत्परीतानन्तके लघौ । परीतानन्तमुत्कृष्टमेकरूपोज्झितं भवेत् ॥ ९८ ॥ सैकरूपे पुनस्तस्मिन् युक्तानन्तं जघ न्यकम् । अभव्यजीवैस्तुलितं, मध्यं तृत्कृष्टकावधि ॥ ९९ ॥ जघन्ययुक्तानन्ते च वर्गिते रूपवर्जिते । स्याद्य Jain Educabo national For Private & Personal Use Only उत्कृष्ट नन्तान ताधि. २० २५ 112 11 २८ w.jainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy