SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ लोक द्रव्य. १ सर्ग: ॥ ६ ॥ संख्याते-त्रिभिः सहकविंशतिः॥२६॥द्वावेव लघु संख्यातं, व्यादिकं मध्यमं ततः।अर्वागुत्कृष्टसंख्यातात्, नैसंख्यातादि कस्तु गणनां भजेत् ॥२७॥ यत्तु संख्यातमुत्कृष्टं, तत्तु ज्ञेयं विवेकिभिः । चतुष्पल्याधुपायेन, सर्षपोत्करमानतः |॥२८॥ जम्बूद्वीपसमायाम-विष्कम्भपरिवेषकाः । सहस्रयोजनोद्वेधाः, पल्याश्चत्वार ईरिताः ॥ २९॥ उच्चया योजनान्यष्टौ, जगत्या ते विराजिताः। जगत्युपरि च क्रोश-दूयोचवेदिकाञ्चिताः॥३०॥दिदृक्षवो द्वीपवा(न्, स्वीकृतोद्ग्रीविका इव । ध्यायन्तो ज्येष्ठसंख्यातं, योगपभृतोऽथवा ॥ ३१ ॥ त्रिभिर्विशेषकम् ॥ आद्योऽनवस्थिताख्यः स्या-च्छलाकाख्यो द्वितीयकः । तृतीयः प्रतिशलाक-स्तुर्यो महाशलाककः ॥३२॥ आवेदिकान्तं सशिख-स्तत्र पल्योऽनवस्थितः। मायादेकोऽपि न यथा, सर्षपैर्भियते तथा ॥३३॥ असत्कल्पनया कश्चि-द्देवस्तमनवस्थितम् । कृत्वा वामकरे तस्मा-त्सर्षपं परपाणिना ॥ ३४ ॥ जम्बूद्वीपे क्षिपेदेकं, द्वितीय लवणोदधौ । तृतीयं धातकीखण्डे, तुर्य कालोवारिधी ॥ ३५॥ एवंद्वीपे समुद्रे वा, स पल्यो यत्र निष्ठितः। तत्समायामविष्कम्भ-परिधिः कल्प्यते पुनः॥ ३६॥ उद्वेधोत्सेधतः प्राग्व-द्भियते सर्षपैश्च सः।क्रमाद द्वीपे समुद्रे च, पूर्ववन्यस्यते कणः॥ ३७॥ एवं द्वितीयवारं च, रिक्तीभूतेऽनवस्थिते । मुच्यते सर्षषः साक्षी, शलाकाभिधपल्यके ॥ ३८ ॥ पूर्यमाणै रिच्यमानै-रेवं भूयोऽनवस्थितैः। शलाकाख्योऽपि सशिखं, पूर्यते । साक्षिसर्षपैः॥१३९॥ अत्रेदं ज्ञेयं-आयेऽनवस्थिते रिक्ती-भूते साक्षी न मुच्यते । सर्वैः पल्यैः समानत्वानानवस्थितताऽस्य यत् ॥ ४०॥ याऽस्यानवस्थितेत्याह्वा, ज्ञेया योग्यतया तु सा । घृतयोग्यो घटो यद्वदू, घृत 220292029292020OPORO200900202012 ९८ Jain EducationAttiona For Private Personal Use Only Jainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy