________________
नन्वेवं निचिते पल्ये, वालाग्रैः संभवन्ति किम् ? । नभःप्रदेशा अस्पृष्टा-स्तदुद्धारो यदीरितः॥१२॥ संख्यातादि उच्यते संभवन्त्येवास्पृष्टास्ते सूक्ष्मभावतः । नभोऽशकानां वालाग्र-खण्डौघात्तादृशादपि ॥१३॥ यथा कुष्माण्डभरिते, मातुलिङ्गानि मञ्चके । मान्ति तैश्च भृते धात्री-फलानि बदराण्यपि ॥१४॥ तत्रापि मान्ति चणका-दयः सूक्ष्मा यथाक्रमम् । एवं वालाग्रपूर्णेऽपि, तत्रास्पृष्टा नभोऽशकाः ॥१५॥ यद्वा-यतो घनेऽपि स्तम्भादौ, शतशो मान्ति कीलकाः । ज्ञायतेऽस्पृष्टखांशानां, ततस्तत्रापि संभवः ॥१६॥ एवं वालाग्र खण्डौघे-रत्यन्तनिचितेऽपि हि । युक्तैव पल्ये खांशाना-मस्पृष्टानां निरूपणा ॥ १७॥ एतेषामथ पल्यानां, दशभिः कोटिकोटिभिः । सूक्ष्म सूक्ष्मेक्षिभिः क्षेत्र-सागरोपममीक्षितम् ॥ १८॥ बादरक्षेत्रपल्याम्भो-निधिभ्यां सूक्ष्मके इमे । असंख्यगुणमाने स्तः, कालतः पल्यसागरे ॥ १९ ॥ क्षेत्रसागरपल्याभ्या-माभ्यां प्रायः प्रयोजनम् । द्रव्यप्रमाणचिन्तायां, दृष्टिवादे कचिद्भवेत्॥२०॥पल्यं पल्योपमं चापि, ऋषिभिः परिभाषितम्। सारं वारिधिपर्यायं, सागरं सागरोपमम् ॥२१॥
अथ संख्यातादिकानां,वरूपंकिञ्चिदुच्यते।श्रोतव्यं तत्सावधान-र्जनैस्तत्त्वबुभुत्सुभिः॥२२॥ त्रिधा संख्यातं जघन्य-मध्यमोत्कृष्टभेदतः। असंख्यातानन्तयोस्तु, भेदा नव नवोदिताः ॥२३॥ परीतासंख्यातमाचं, युक्तासंख्यातकं परम् । तार्तीयीकमसंख्याता संख्यातं परिकीर्तितम् ॥२४॥ परीतानन्तमाद्यं स्या-चुक्तानन्तं द्वितीयकम् । अनन्तानन्तकं ताती-यीकंच गदितं जिनैः॥२५॥षडप्येते स्युर्जघन्यमध्यमोत्कृष्टभेदतः। अष्टादशाथ
en Educa
For Private
Personel Use Only
T
ww.jainelibrary.org