________________
१ सगे:
प्रतिवर्षशतं हरेत् ॥१॥ कालेन यावता पल्यः, स्यान्निले पोऽखिलोऽपि सः। तावान् कालो भवेत्सूक्ष्म-मद्धा
पल्योप|पल्योपमं किल ॥२॥ एतेषामथ पल्यानां, दशभिः कोटिकोटिभिः। सूक्ष्ममद्धाभिधं ज्ञान-सागराः सागरं मसागरोजगुः॥३॥ सूक्ष्माद्धापल्यवार्द्धिभ्या-माभ्यां मीयन्त आर्हतः। आयूंषि नारकादीनां, कर्मकायस्थिती तथा पमखरूपं ॥४॥ एतेषामेव वार्धानां, दशभिः कोटिकोटिभिः। उत्सर्पिणी भवेदेका, तावत्येवावसर्पिणी ॥५॥ एकादिससान्तघन-रूढकेशाग्रराशिभिः । भृतादुक्तप्रकारेण, पल्यात्पूर्वोक्तमानतः॥६॥ तत्तद्वालाग्रसंपृष्ट-खप्रदेशापकर्षणे । समये समये तस्मिन् , प्राप्ते निःशेषतां तथा ॥७॥ कालचक्रैरसंख्याते-र्मितं तत्क्षेत्रनामकम् । बादरं जायते पल्यो-पममेवं जिनैर्मतम् ॥ ८॥ कोटिकोट्यो दशैषां च, बादरं क्षेत्रसागरम् । सुबोधतायै सूक्ष्मस्य, कृतमेतन्निरूपणम् ॥९॥ छिन्नरसंख्यशः प्राग्वत्, केशाग्रैः पल्यतो भृतात् । समये समये चैकः, खप्रदे-18| शोऽपकयते ॥१०॥ एवं केशांशसंस्पृष्टा-संस्पृष्टाभ्रांशकर्षणात् । तस्मिन्निःशेषिते सूक्ष्म, क्षेत्रपल्योपमं भवेत् ॥११॥ यद्यप्यत्र वालाग्रखण्डस्पृष्टास्पृष्टनभःप्रदेशकर्षणेऽधिकृते एकैकस्य वालाग्रस्यासंख्यभागकरणं नोपयुक्तं, उभयथाऽप्यविशेषात् , तथाऽपि प्रवचनसारोद्धारवृत्त्यादिषु पूर्वग्रन्थेषु तथा दर्शनादत्रापि तथोक्तमिति ज्ञेयं ।
१ आह-यदि स्पृष्टा अस्पृष्टाश्च नभःप्रदेशा गृह्यन्ते, तर्हि वालाप्रैः किं प्रयोजनम् ?, यथोक्तपल्यान्तर्गतनभःप्रदेशापहारमात्रतः सामान्येनैव ॥५ वक्तुमुचितं स्यात् , सत्यं, किन्तु प्रस्तुतपस्योपमेन दृष्टिवादे द्रव्याणि मीयन्ते, तानि कानिचिद्यथोक्तवालाग्रस्पृष्टैरेव नभःप्रदेशैर्मीयन्ते, कानिचिदस्पृष्टैरित्यतो दृष्टिवादोक्तद्रव्यमानोपयोगित्वाद् वालाग्रप्ररूपणाऽत्र प्रयोजनवतीति ( अनुयोगद्वारवृत्तौ )
Jain Educa
t
ional
For Private & Personal Use Only
ww.jainelibrary.org