________________
सुबोधमबुधैरपि । अतो निरूपितं नान्य-त्किञ्चिदस्य प्रजोजनम् ॥८६॥ एतेषामथ पल्यानां, दशभिः पस्योपकोटिकोटिभिः। भवेद्वादरमुद्धार-संज्ञक सागरोपमम् ॥ ८७॥ अथैकैकस्य पूर्वोक्त-वालाग्रस्य मनीषया ।। मसागरोअसंख्ययानि खण्डानि, कल्पनीयानि धीधनैः ॥८८॥ यत्सूक्ष्म पुद्गलद्रव्यं, छद्मस्थश्चक्षुषेक्षते । तदसंख्या-1 पमस्वरूप शमानानि, तानि स्युर्द्रव्यमानतः ॥८९॥ सूक्ष्मपनकजीवाङ्गा-वगाढक्षेत्रतोऽधिके । असंख्येयगुणे क्षेत्रे|ऽवगाहन्त इमानि च ॥९॥ व्याचक्षतेऽथ वृद्धास्तु, मानमेषां बहुश्रुताः । पर्याप्सवादरक्षोणी-कायिकाङ्गेन। संमितम् ॥९१॥ समानान्येव सर्वाणि, तानि च स्युः परस्परम् । अनन्तप्रदेशिकानि, प्रत्येकमखिलान्यपि ॥९२॥ ततस्तैः पूर्यते प्राग्वत्, पल्यः पूर्वोक्तमानकः । समये समये चैकं, खण्डमुद्भियते ततः॥९३ ॥ निःशेषं निष्ठिते चास्मिन् , सूक्ष्ममुद्धारपल्यकम् । संख्येयवर्षकोटीभिर्मितमेतदुहाहृतम्॥९४ ॥ सुसूक्ष्मोद्धारपल्यानां, दशभिः कोटिकोटिभिः। सूक्ष्म भवति चोद्धारा-भिधानं सागरोपमम् ॥९॥ आभ्यां सागरपल्याभ्यां, मीयन्ते द्वीपसागराः । अस्याः सार्द्धद्विसागर्याः, समयैः प्रमिता हि ते ॥ ९६ ॥ यद्वैतासु पल्यकोटा-कोटीषु पञ्चविंशती । यावन्ति वालखण्डानि । तावन्तो द्वीपसागराः॥९७ ॥ एकादिसप्तान्तदिनो-द्तैः केशाग्रराशिभिः। भृतादुक्तप्रकारेण, पल्यात्पूर्वोक्तमानतः ॥९८॥ प्रतिवर्षशतं खण्ड-मेकमेकं समुद्धरेत् । निःशेष निष्ठिते चास्मि-न्नद्धापल्यं हि बादरम् ॥ ९९ ॥ एतेषामथ पल्यानां, दशभिः कोटिकोटिभिः। भवेद्वादरमद्धाख्यं, जिनोक्तं सागरोपमम् ॥१०॥ पूर्वरीत्याऽथ वालाः, खण्डीभूतैरसंख्यशः। पूर्णात्पल्यात्तथा खण्डं,
Jain Educa
t ional
For Private & Personel Use Only
S
N
.jainelibrary.org