________________
पल्योपमसागरोपमखरूप
लोक द्रव्य.. तानि द्विसहस्रगुणानि क्रोशे, एवं क्रमेण समवृत्तघनयोजनपल्यगतो रोमखण्डराशिर्भवति, स चाङ्कतो यथा- १ सगे: IS त्रयस्त्रिंशत्कोटयः स्युः, सप्त लक्षाणि चोपरि । द्वाषष्टिश्च सहस्राणि, शतं च चतुरुत्तरम् ॥ ७४ ॥ एता.
वत्यः कोटिकोटि-कोटाकोव्यः स्मृता अथ । चतुर्विशतिर्लक्षाणि, पञ्चषष्टिः सहस्रकाः ॥७५॥ पंचविंशाः शताः षट् च, स्युः कोटाकोटिकोटयः। कोटाकोटीनां च लक्षा, द्विचत्वारिंशदित्यथ ॥ ७६॥ एकोनविं. शतिरपि, सहस्राणि शता नव । षष्टिश्चोपरिकोटीनां, मानमेवं निरूपितम् ॥ ७७॥ लक्षाणि सप्तनवतिस्त्रिपञ्चाशत्सहस्रकाः। षट् शतानि च पल्येऽस्मिन्, स्युः सर्वे रोमखण्डकाः॥७८॥ त्रित्रिखाश्वरसाक्ष्याशावादर्थक्ष्यब्धिरसेन्द्रियाः। षद्विपञ्चचतुर्थेका-काङ्कषट्खाङ्कवाजिनः ॥७९॥ पञ्च त्रीणि च षट् किंच, नव खानि ततः परम् । आदितः पल्यरोमांश-राशिसंख्याङ्कसंग्रहः॥८॥ अत्रोक्तशेषो विस्तरस्तु उपाध्यायश्रीशान्तिचन्द्रगणिकृतश्रीजंबुद्वीपप्रज्ञप्तिवृत्तेरवसेयः॥ । तथा निबिडमाकण्ठ, भियते स यथा हि तत् । नाग्निदहति वालाग्रं, सलिलं च न कोथयेत् ॥ ८१॥ तथा च चक्रिसैन्येन, तमाक्रम्य प्रसप्र्पता। न मनाक क्रियते नीचै-रेवं निबिडतां गतात् ॥ ८२॥ समये समये तस्मा-द्वालखंडे समुद्धृते । कालेन यावता पल्या, स भवेनिष्ठितोऽखिलः ॥ ८३ ॥ कालस्य तावतः संज्ञा, पल्योपममिति स्मृता । तत्राप्युद्धारमुख्यत्वा-दिदमुद्धारसंज्ञितम् ॥ ८४ ॥ (त्रिभिर्विशेषकम् ) इदं बादरमुद्धार-पल्योपममुदीरितम् । प्रमाणमस्य संख्याताः, समयाः कथिता जिनैः॥ ८५ ॥ अस्मिन्निरूपिते सूक्ष्म,
Hol
ना
Jain Education
Jainelibrary.org
a
For Private Personal Use Only
l