SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ तयोः परान्तान्तरालं, रज्जुमानमिदं भवेत् ॥६५॥ लोकैश्च-यवोदरैरङ्गुलमष्टसंख्य-हस्तोऽङ्गुलैः षड्गुणितैश्च- पन्योपतुर्भिः।हस्तैश्चतुर्भिर्भवतीह दण्डः, क्रोशः सहस्रद्वितयेन तेषाम् ॥६६॥ स्यायोजनं क्रोशचतुष्टयेन, तथा रामसागरोकराणां दशकेन वंशः । निवर्तनं विंशतिवंशसंख्यैः, क्षेत्रं चतुर्भिश्च भुजैर्निबद्धम् ॥ ६७॥ इत्याद्यभिधीयते ॥ मानं पल्योपमस्याथ, तत्सागरोपमस्य च । वक्ष्ये विस्तरतः किञ्चित् , श्रुत्वा श्रीगुरुसन्निधौ ॥६८|आद्यमुद्धारपल्यं स्या-दद्धापल्यं द्वितीयकम् । तृतीयं क्षेत्रपल्यं स्या-दिति पल्योपमं त्रिधा ॥ ६९॥ एकैकं द्विप्रकारं स्यात् , सूक्ष्मबादरभेदतः। त्रैधस्यैवं सागरस्या-प्येवं ज्ञेया द्विभेदता ॥७॥ उत्सेधाङ्गलसिद्धैक-योजनप्रमितोऽवटः । उण्डत्वायामविष्कम्भ-रेष पल्य इति स्मृतः ॥७॥ परिधिस्तस्य वृत्तस्य, योजनत्रितयं भवेत् । एकस्य योजनस्योन-षष्ठभागेन संयुतम् ॥७२॥ संपूर्य उत्तरकुरु-नृणां शिरसि मुण्डिते । दिनैरेकादिससान्तै, रूढकेशाग्रराशिभिः॥७३॥ क्षेत्रसमासवृहद्वृत्तिजम्बूद्वीपप्रज्ञप्तिवृत्त्यभिप्रायोऽयं, प्रवचनसारोद्धारवृत्तिसंग्रहणीबृहवृत्त्योस्तुमुण्डिते शिरसि एकेनाहा द्वाभ्यामहोभ्यां यावदुत्कर्षतः सप्तभिरहोभिः प्ररूढानि वालाग्राणीत्यादि सामान्यतः कथनादुत्तरकुरुनरवालाग्राणि नोक्तानीति ज्ञेयं । 'वीरंजयसेहर क्षेत्रविचारसत्कखोपज्ञवृत्ती तु देवकुरूत्तरकुरूद्भवसप्तदिनजातोरणस्योत्सेधाङ्गुलप्रमाणं रोम सप्तकृत्वोऽष्टखण्डीकरणेन विंशतिलक्षसप्तनवतिसहस्रकशतद्वापञ्चाशत्प्रमितखण्डभावं प्राप्यते, तादृशै रोमखण्डैरेष पल्यो भ्रियत इत्यादिरर्थतः संप्रदायो दृश्यत इति ज्ञेयं ॥ एतानि चाङ्गुलसत्कानि रोमखण्डानि चतुर्विंशतिगुणानि हस्ते, तानि चतुर्गुणानि धनुषि, Jan Educ a tional For Private Personal Use Only V ww.jainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy