________________
लोक द्रव्य. १ सर्गः
प्रयोजन अङ्गुलमान
॥३॥
तत्र गुणनविधिश्चैवम्-अङ्कोऽन्तिमो गुणराशे-गुण्यो गुणकराशिना । पुनरुत्सारितेनोपा-त्यादयोऽप्येवमेव च ॥५२॥ उपर्यधश्चादिमान्त्यौ, राश्योर्गुणकगुण्ययोः। कपाटसन्धिवत्स्थाप्यौ, विधिरेवमनेकधा ॥५३॥ स्थानाधिक्येन संस्थाप्यं, गुणितेऽङ्के फलं च यत् । यथास्थानकमङ्कानां, कार्या संकलना ततः॥५४॥ अङ्कस्थानानि चैवम्-एक दशशतसहस्रा-युतलक्षप्रयुतकोटयः क्रमतः । अर्बुदमजं खर्व निखर्वमहापद्मशङ्कवस्तस्मात् ॥ ५५ ॥ जलधिश्चान्त्यं मध्यं पराय॑मिति दशगुणोत्तरं संज्ञाः॥ इति ॥ अत्रोदाहरणं-पश्चत्र्येकमितो राशि-18 दिवाकरगुणीकृतः। स्याईिशा षोडशशती,क्रमोऽङ्कानां च वामतः॥५६॥ अथ प्रसङ्गादुपयोगित्वाच भागहा-| रविधिरुच्यते-यद्गुणो भाजकः शुद्ध्ये-दन्त्यादेर्भाज्यराशितः। तत्फलं भागहारे स्यात् , भागाप्राप्तौ च खं फलम् ॥ ५७ ॥ अग्रे यथाऽऽप्यते भागः, पूर्वमङ्घ तथा भजेत् । षडिर्भागे यथा षष्टेः, प्राप्यन्ते केवलं दश ॥५८॥-अथ प्रकृतम्-पादः स्यादङ्गलैः षडिर्वितस्तिः पादयोर्द्वयम् । वितस्तिद्वितयं हस्तो, द्वौ हस्तौ कुक्षिरुच्यते ॥५९॥ कुक्षिद्वयन दण्डः स्या-त्तावन्मानं धनुर्भवेत् । युगं वा मुसलं वापि, नालिका वासमाः समे ॥३०॥18 अङ्गुलैः षण्णवत्यैव, सर्वेऽपि प्रमिता अमी । सहस्रद्वितयेनाथ, क्रोशः स्याद्धनुषामिह ॥ ६१ ॥ चतुष्टयेन क्रोशानां, योजनं तत्पुनस्त्रिधा । उत्सेधात्मप्रमाणाख्य-रङ्गुलैर्जायते पृथक् ॥ ६२॥ एवं पादादिमानानां, सर्वेषां त्रिप्रकारताम् । विभाव्य विनियुञ्जीत, खखश्याने यथायथम् ॥ ६३ ॥ प्रमाणाङ्गुलनिष्पन्न-योजनानां प्रमाणतः । असंख्यकोटाकोटीभि-रेका रज्जुः प्रकीर्तिता ॥ ६४॥ स्वयम्भूरमणाब्धेर्ये, पूर्वपश्चिमवेदिके।
॥३॥
सर्वेषां विप्रकाशन तत्पुनस्त्रिधा । उत्सधा सहस्रद्वितयेनाथ, कोशापि, नालिका वा समाः समक्ष
TAG29
२८
Jain Education
%
na
For Private Personal Use Only
ainelibrary.org