SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Jain Educat पुण नेन, नगपृथ्व्यादिशाश्वतम् ॥ ४२ ॥ तत्रापि तस्याङ्गुलस्य दैर्येण, मीयते वसुधादिकम् । इत्याहुः केचिदन्ये च, तत्क्षेत्रगुणितेन वै ॥ ४३ ॥ तद्विष्कम्भेण केऽप्यन्ये, पक्षेष्वेतेषु च त्रिषु । ईष्टे प्रामाणिकं पक्षं, निश्चेतुं जगदीश्वरः ॥ ४४ ॥ अत्र प्रथमपक्षे एकस्मिन् योजने उत्सेधाङ्गुलनिष्पन्नानि चत्वारि योजनशतानि भवन्ति, द्वितीयपक्षे सहस्रं, तृतीये दश क्रोशा भवन्ति परं श्रीअनुयोगद्वार चूर्णो तृतीय एव पक्ष आहतो दृश्यते, तथा च तद्ग्रन्थः- “जे य पमाणंगुलाओ पुढवाइप्पमाणा आणिनंति ते अ पमाणंगुलविक्खंभेणं आणेयवा, ण पुण सूइअंगुलेणं" ति ॥ श्रीमुनिचन्द्रसूरिकृताङ्गुलसप्ततिकायामप्युक्तं - " एयं च खित्तगुणिएण केइ एयस्स जं मिति । अन्ने उ सूइअंगुल -माणेण न सुत्तभणियं तं ॥ १ ॥ अत्र चर्चादिविस्तरः अङ्गुलसप्ततिकातोऽवसेयः ॥ वापीकूपतडागादि - पुरदुर्गगृहादिकम् । वस्त्रपात्रविभूषादि, शय्याशस्त्रादि कृत्रिमम् ॥ ४५ ॥ इन्द्रियाणां च विषयाः, सर्व मेयमिदं किल । आत्माङ्गुलैर्यथामान-मुचितैः खखवारके ॥ ४६ ॥ आत्मोत्सेधप्रमाणाख्यं, त्रैधमप्यङ्गुलं त्रिधा । सूच्यङ्गुलं च प्रतरा-हुलं चापि घनाङ्गुलम् ॥ ४७ ॥ एकप्रदेशबाहल्यव्यासैकाङ्गुलदैर्घ्ययुक् । नभः प्रदेशश्रेणिर्या, सा सूच्यङ्गुलमुच्यते ॥ ४८ ॥ वस्तुतस्तदसंख्येय- प्रदेशमपि कल्प्यते । प्रदेशत्रय निष्पन्नं, सुखावगतये नृणाम् ॥ ४९ ॥ सूची सूच्यैव गुणिता, भवति प्रतराङ्गुलम् । नवप्रादेशिकं कल्प्यं, तद्दैर्घ्यव्यासयोः समम् ॥ ५० ॥ प्रतरे सूचीगुणिते, सप्तविंशतिखाशकम् । दैर्ध्य विष्कम्भबाहल्यैः समानं स्याद् घनाङ्गुलम् ॥ ५१ ॥ उपर्युपरिप्रतरत्रये स्थापिते स्थापना ॥ national For Private & Personal Use Only प्रयोजनं अङ्गुलमानं १० १४ w.jainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy