SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ इति द्वारषट्कं ॥ सर्वेऽप्येते संज्ञिनः स्युः पुंस्त्रीवेदयुजः परम् । देव्यः सुरेभ्यो द्वात्रिंशद्गुणा द्वात्रिंशताऽधिकाः ॥ ८८ ॥ इति द्वारद्वयं ॥ एषां स्युर्दृष्टयस्तिस्र, आयं ज्ञानत्रयं भवेत् । सम्यग्दृशां परेषां तु स्यादज्ञानत्रयं ध्रुवं ॥ ८९ ॥ इति द्वारद्वयं ॥ दर्शनत्रयमाद्यं स्यादेषां सम्यक्त्वशालिनाम् । दर्शनद्वयमन्येषामुपयोगो द्विधा ततः ॥ ९० ॥ उपयोगाः षडेतेषां ज्ञानदर्शनयोस्त्रयम् । सम्यग्दृशां परेषां तु, त्र्यज्ञानी द्वे च दर्शने ॥ ९१ ॥ एतेषामोजआहारो, लोमाहारोऽपि संभवेत् । न स्यात्कावलिकः स्यात्तु, मनोभक्षणलक्षणः ॥९२॥ अन्तरं पुनरेतस्य चतुर्थभक्त संमितम् । जघन्यमन्यत्वव्दानां त्रयस्त्रिंशत्सहस्रकाः ॥९३॥ इतिद्वारम् ॥ गुणस्थानानि चत्वारि, योगाचैकादशोदिताः । औदारिकाहारकाख्यतन्मित्रांश्च विनाऽखिलाः ॥ ९४ ॥ इतिद्वारद्वयं ॥ प्रतरासंख्यभागस्थासंख्येयश्रे निवर्त्तिभिः । नभः प्रदेशैः प्रमिताः प्रोक्ताः सामान्यतः सुराः ॥ ९५ ॥ क्षेत्रपल्योपमासंख्यभागस्था भ्रांशसंमिताः । देवा अनुत्तरोत्पन्नाः, संख्येयास्तत्र पञ्चमे ॥ ९६ ॥ बृहत्तरक्षेत्रपल्यासंख्यांशाभ्रांशसंमिताः । भवन्त्यथोपरितन ग्रैवेयकत्रिकामराः ॥ ९७ ॥ मध्यमेऽधस्तनेऽप्येवं, त्रिके कल्पेऽच्युतेऽपि च । आरणे प्राणते चैवानतेऽपीयन्त एव ते ॥ ९८ ॥ किंतु पल्यासंख्यभागो, बृहत्तरो यथोत्तरम् । एकमान मितेष्वेवं, | स्यात्परेष्वपि भावना ॥९९॥ सहस्रार महाशुक्रलान्तक ब्रह्मवासिनः। माहेन्द्रसनत्कुमारदेवाः प्रत्येकमीरिताः ॥ १०० ॥ घनीकृतस्य लोकस्य, श्रेण्यसंख्यांशवर्त्तिभिः । नभःप्रदेशैः प्रमिता, विशेषोऽत्रापि पूर्ववत् ॥ १ ॥ अङ्गुलप्रमितक्षेत्र प्रदेशरा शिसंगते । तृतीयवर्गमूलघ्ने, द्वितीयवर्गमूलके ॥२॥ यावान् प्रदेशराशिः स्यादेकप्रादेशिकीष्वथ । Jain Educatinational For Private & Personal Use Only ५ १० १४ www.jainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy