________________
लोकप्रकाशे ८ देवसर्गः
॥१११॥
Jain Education
यस्त्रयस्त्रिंशदुत्कर्षेण भवस्थितिः । सहस्राणि दशाब्दानां स्यादेषां सा जघन्यतः ॥ ७४ ॥ इति भवस्थितिः ॥ कायस्थितिस्त्वेषां भवस्थितिरेव ॥ देहास्त्रयस्तैजसं च, कार्मणं वैक्रियं तथा । संस्थानं चतुरस्रं स्याद्रम्यं पुण्यानुसारतः ॥ ७५ ॥ इति द्वारद्वयं ॥ उत्कर्षतः सप्त हस्ता, वपुर्जघन्यमः पुनः । अङ्गुलासंख्य भागः स्यादादौ स्वाभाविकं ह्यदः ॥ ७६ ॥ तत्कृत्रिमं वैक्रियं साधिकैकलक्षयोजनम् । ज्येष्ठमङ्गुल संख्यांशमानमादौ च तल्लघु ॥ ७७ ॥ इत्यङ्गमानं ॥ आयाः पञ्च समुद्घाताः, पञ्चखेतेषु यान्त्यमी । पर्याप्तगर्भजनरतिर्यक्षु संख्यजीविषु ॥ ७८ ॥ पर्याप्तवादरक्ष्माम्बुप्रत्येकक्षितिजेषु च । गर्भजा मनुजाः पञ्चेन्द्रियास्तिर्यच एव च ॥ ७९ ॥ संमूर्छिमा गर्भजाञ्चागच्छन्त्यमृतभोजिषु । विशेषस्त्वत्रोदितः प्राकू, क्षेत्रलोकेऽपि वक्ष्यते ॥ ८० ॥ मुहूर्त्तानि द्वादशैषामुत्पत्तिच्यवनान्तरम् । सामान्यतः स्यादुत्कृष्टं जघन्यं समयावधि ॥ ८१ ॥ उत्पद्यन्ते च्यवन्तेऽमी, एकस्मिन्समये पुनः । एको द्वित्राश्च संख्येया, असंख्येयाश्च कर्हिचित् ॥ ८२ ॥ इति द्वारत्रयं ॥ सम्यक्त्वं देशविरतिं, चारित्रं मुक्तिमप्यमी । लभन्ते लघुकर्माणो, विपद्यानन्तरे भवे ॥ ८३ ॥ इत्यनन्तराप्तिः ॥ सिद्ध्यन्त्यनन्तरभवे, एकस्मिन्समये त्वमी । उत्कर्षतः साष्टशतं, विशेषस्त्वेष तत्र च ॥ ८४ ॥ भवनेशा व्यन्तराश्च सर्वे दश दशैव हि । तद्देव्यः पञ्च पञ्चैव, दश ज्योतिष्कनिर्जराः ॥ ८५ ॥ ज्योतिष्कदेव्यश्चैकस्मिन् क्षणे सिद्ध्यन्ति विंशतिः । वैमानिकाः साष्टशतं, तद्देव्यो विंशतिः पुनः ॥ ८६ ॥ इति समयेसिद्धिः ॥ लेश्याहारदिशां षट्कं, न संहननसंभवः । कषाय संज्ञेन्द्रियाणि, सर्वाण्येषां भवन्ति च ॥ ८७ ॥
"
For Private & Personal Use Only
देवानां
भेदादि
२०
२५
॥१११॥
२८
www.jainelibrary.org