SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे ८ देवसर्गः ॥१०९॥ Jain Education नदी लवणवारिधिम् । योजनैर्दिशि याम्यायां, पञ्चपञ्चाशता ततः ॥ १४ ॥ अस्ति स्थलं वेदिकान्तः, प्रतिसंतापदायकम् । प्रमाणतो योजनानि, सार्धानि द्वादशैव तत् ॥ १५ ॥ योजनानि त्रीणि सार्धान्युदेवोऽत्र महो दधेः । सप्तचत्वारिंशदल, गुहाः सन्त्यतितामसाः ॥ १६ ॥ आद्यसंहननास्तासु, वसन्त्युरुपराक्रमाः । नरा जलचरा मद्यमांस स्त्री भोगलोलुपाः ॥ १७॥ दुर्वर्णाः कठिनस्पर्शाः, भीषणा घोरदृष्टयः । अह्यर्घद्वादशकरदेहाः संख्येयजीविताः ॥ १८ ॥ तत्र रत्नद्वीपमस्ति, स्थलात्संतापदायकात् । वारिधौ योजनैरेकविंशता भूरिभानवम् ॥ १९ ॥ घरहान् वात्रिकांस्तेऽथ, मनुष्यास्तन्निवासिनः । लिम्पन्ति मद्यैर्मासैश्च तेषु तानि क्षिपन्ति च ॥ २० ॥ मद्यमांसालाबुपात्रैः, प्रपूर्य वहनानि ते । गच्छन्ति जलधौ मद्यमांसैस्तान् लोभयन्ति च ॥ २१ ॥ मद्यमांसास्वा दलुब्धास्ततस्तदनुपातिनः । निपपन्ति घरद्वेषु, क्रमात्ते जलमानुषाः ॥ २२ ॥ मांसानि वह्निपक्वानि, जीर्णमधानि ते नराः । यावद्दिनानि द्वित्राणि, भुञ्जानाः सुखमासते ॥ २३ ॥ तावद्भटाः सुसन्नद्धा, रत्नद्वीपनिवासिनः । संयोजितान् घरहांस्तान, वेष्टयन्ति समन्ततः ॥ २४ ॥ वर्षे यावद्वाहयन्ति, घरहानतिदुःसहान् । तथापि तेषामस्थीनि, न स्फुटन्ति मनागपि ॥ २५ ॥ ते दारुणानि दुःखानि, सहमाना दुराशयाः । प्रपीड्य - माना वर्षेण, त्रियन्तेऽत्यन्तदुर्मराः ॥ २६ ॥ अथाण्डगोल कांस्तेषां जनास्ते रत्नकांक्षिणः । चमरीपुच्छवालाग्रैर्गु| फित्वा कर्णयोर्द्वयोः ॥२७॥ निवद्धय प्रविशन्त्यन्धौ, तानन्ये जलचारिणः । कुलीरतन्तुमीनायाः, प्रभवन्ति न बाधितुम् ॥ २८॥ युग्मम् । इति महानिशीथचतुर्थाध्ययनेऽर्धतः ॥ पिशाचा भूतयक्षाश्च, राक्षसाः किन्नरा अपि । For Private & Personal Use Only परमाधार्मिकाः १५ २० २५ ॥१०९॥ २७ www.jainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy