________________
9-20200202000
॥ अष्टमः सर्गः प्रारभ्यते । सुराश्चतुर्धा भवनव्यन्तरज्योतिषा अपि । वैमानिका इति प्रोक्तास्तान् प्रभेदैरथ ब्रुवे ॥१॥ दशधा भवनेशाश्चासुरनागसुपर्णकाः। विद्युदग्निद्वीपवार्द्धि दिग्वायुस्तनिता इति ॥२॥ एते च सर्वे कुमारोपपदा इति ज्ञेयं ॥ परमाधार्मिकाः पञ्चदशधा परिकीर्तिताः । यथार्थे मभिः ख्याता, अम्बप्रभृतयश्च ते ॥ ३ ॥ अम्बाम्बरीषशवलश्यामरौद्रोपरुद्रकाः। असिपत्रधनु:कुम्भाः , महाकालश्च कालकः॥४॥ वैतरणी वालुकश्च, महाघोषः खरखरः। एतेऽसुरनिकायान्तर्गताः पञ्चदशोदिताः॥५॥ नीत्वोज़ पातयत्याद्यो, नारकान् खण्डशः परः । करोति भ्राष्ट्रपाकाहा॑न् , तृतीयोऽब्रहृदादिभित् ॥ ६॥ शातनादिकरस्तेषां, तुरीयः पञ्चमः पुनः । कुन्तादौ प्रोतकस्तेषां, षष्ठोऽङ्गोपाङ्गभङ्गकृत् ॥७॥ अस्याकारपत्रयुक्तं, वनं सृजति सप्तमः। धनुर्मुक्तार्धचन्द्रादिबाणैर्विद्ध्यति चाष्टमः ॥ ८॥ नवमः पाककृत्तेषां, कुम्भादौ दशमः पुनः । खण्डयित्वाऽसकृत् श्लक्ष्णमांसखण्डानि खादति ॥९॥ तान् कण्ड्वादौ पचत्येकादशश्च द्वादशः सृजेत् । नदी वैतरणी तप्तरक्तपूयादिपुरिताम् ॥ १०॥ कदम्बपुष्पाद्याकारवालुकासु पचेत्परः । नश्यतस्तान् महाशब्दो, निरुणद्धि चतुर्दशः॥ ११ ॥ आरोप्य शाल्मलीवृक्षं, वज्रकण्टकभीषणम् । खरखरः पञ्चदशः, समाकर्षति नारकान् ॥ १२॥ परमाधार्मिकास्ते च, संचितानन्तपातकाः। मृत्वाऽण्डगोलिकतयोत्पद्यन्तेऽत्यन्तदुःखिताः ॥१३॥ यत्र सिन्धुः प्रविशति,
20900ams02004000
Jain Education
national
For Private
Personal Use Only