SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ वैमानिका एव, हरयोऽप्यननुत्तराः ॥८७॥ एवं मनुष्यरत्नानि यानि स्युः पञ्च चक्रिणाम् । तान्यागत्या विभाव्यानि, सामान्येन मनुष्यवत् ॥ ८८ ॥ वैमानिकेभ्यश्च यदि, भवन्ति तानि तर्हि व । अनुत्तरसुरान्मुक्त्वान्येभ्यः स्युर्वासुदेववत् ॥ ८९ ॥ मुहर्त्ता द्वादशोत्कृष्टं, समयो लघु चान्तरम्। तिर्यग्वदेकसमयसङ्ख्या संमूच्छिमैः सह ॥ ९० ॥ नानाङ्गिनामपर्यासदत्वेनोत्पत्तिरीरिता । उत्कर्षतोऽविच्छेदेन, पल्यासंख्यलवावधि ॥ १ ॥ अपर्याप्सन रत्वेनोत्पत्तिरेकस्य चाङ्गिनः । उत्कर्षतो जघन्याचान्तर्मुहूर्त्त निरन्तरम् ॥ २ ॥ इत्यर्थतः पञ्चसंग्रहे ॥ इत्यागतिः ॥ सम्यक्त्वं देशविरतिं, चारित्रं मुक्तिमप्यमी । लभन्तेऽनन्तरभवे, लढा नरभवादिकम् ॥ ९१ ॥ अनन्तरभवे चैते, न लभन्ते कदाचन । अर्हखं चक्रवर्त्तित्वं, बलत्वं वासुदेवताम् ॥९२॥ लब्धिष्वष्टाविंशतौ या, | येषामिह नृजन्मनि । संभवन्ति प्रसङ्गेन, दइर्यन्ते ता यथागमम् ॥९३॥ कफविपुण्मलामर्शसर्वोषधिमहर्द्धयः । संभिन्नश्रोतोलन्धिश्च विपुलर्जुधियावपि ॥ ९४ ॥ चारणाशीविषावधिसार्वश्यगणधारिताः । चक्रित्वाहत्त्वबलताविष्णुत्वं पूर्वधारिता ॥ ९५ ॥ क्षीरमध्वाज्याश्रवाश्च, वीजकोष्ठधियौ तथा । पदानुसारिता तेजोलेश्याssहारकवैक्रिये ॥ ९६ ॥ शीतलेश्याऽक्षीणमहानसी पुलाकसंज्ञिता । इत्यष्टाविंशतिर्भव्य पुंसां सल्लब्धयो मताः ॥ ९७ ॥ चत्रर्हद्विष्णुबलसंभिन्नश्रोतस्त्वपूर्विताः । गणभृत्वं चारणत्वं, पुलाकाहारके अपि ॥ ९८ ॥ विना दिशामूः स्त्रीष्वन्याः, स्युरष्टादश लब्धयः । आखार्हन्त्यं कदाचिद्यत्तत्त्वाश्चर्यतयोदितम् ॥ ९९ ॥ दशैताः केवलित्वं च विपुलर्जुधियावपि । अभव्यपुंसां नैवैताः संभवन्ति त्रयोदश ॥ १०० ॥ अभव्ययोषितामेताः, Jain Educational For Private & Personal Use Only ५ १० १४ (5)inelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy