SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ लोक.द्रव्य. ७सगे: मनुष्यविशेषाणां गतिः ॥१०६॥ जोगा। विजा मंता य भावंमि ॥७९॥” इति भग० वृ० प्रथमशतद्वितीयोद्देशके ॥ व्यवहारेण चारित्रवन्तोऽप्येतेऽचरित्रिणः। लभन्त ईदृशीः संज्ञा, दोषैरतैर्यथोदितैः॥ ८०॥प्रयान्ति नरकेष्वेव, नियमादर्धचक्रिणः। तथैव च गतिज्ञेया, प्रत्यर्धचक्रिणामपि ॥ ८१॥ चक्रिणो येऽत्यक्तराज्याः, प्रयान्ति नरकेषु ते । सप्तस्वपि यथाकर्मोत्कृष्टायुष्कतया परम् ॥ ८२॥ तथोक्तं भगवती शतक १२ नवमोद्देशकवृत्तौ चक्रवर्तित्वान्तरनिरूपणाधिकारे-"जहण्णेणं सातिरेगं सागरोवम"ति, कथम् ?, अपरित्यक्तसङ्गाश्चक्रवर्तिनो नरकथिवीपूत्पद्यन्ते, तासु च यथाखमुत्कृष्टस्थितयो भवन्ति, ततश्च नरदेवो मृतः प्रथमपृथिव्यामुत्पन्नस्तत्र चोत्कृष्टां स्थिति सागरोपमप्रमाणामनुभूय नरदेवो जायत इत्येवं सागरोपमं, सातिरेकत्वं च नरदेवभवे चक्ररत्नोत्पत्तेराचीनकालेन द्रष्टव्यमिति । श्रीहरिभद्रसूरिकृतदशवकालिकवृत्तौ हैमवीरचरित्रे नवपदप्रकरणवृत्तौ च |चक्रिणः सप्तम्यामेवात्यक्तराज्या यान्तीत्युक्तमिति ज्ञेयं ॥ त्यक्तराज्यास्तु ये सार्वभौमास्ते यान्ति ताविषम् । मुक्तिं वाऽथ सीरिणोऽपि, ध्रुवं वर्मुक्तिगामिनः॥ ८३ ॥ इति गतिः॥ असङ्ख्यायुतिरश्चः, सप्तमक्षितिनारकान् । वाय्यग्नी च विना सर्वेऽप्युत्पद्यन्ते नृजन्मसु ॥८४॥ अर्हन्तो वासुदेवाश्च, बलदेवाश्च चक्रिणः। सुरनैरयिकेभ्यः स्युर्तृतिर्यग्भ्यो न कर्हिचित् ॥८५॥ तत्रापि-प्रथमादेव नरकाज्जायन्ते चक्रवर्तिनः। द्वाभ्यामेव हरिबलास्त्रिभ्य एव च तीर्थपाः॥८६॥ चतुर्विधाः सुराशयुत्वा, भवन्ति बलचक्रिणः। जिना १ कोणिकाख्यानकापेक्षं हि तत् , तथा तस्य तथाविधामवस्थामवलोक्य जिनेनोक्तं, ततो न नियामकं वच एतत् । ॥१० २७ Jain Educatele latina For Private Personel Use Only S ujainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy