SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ लो. प्र. १८ Jain Educat त्वेषामेकद्विसमयावधि । ओजआदिस्त्रिधाऽऽहारः, सचित्तादिरपि त्रिधा ॥ ८० ॥ प्रथमं त्वोजआहारो, लोमकावलिकौ ततः । अन्तरं द्वौ दिनौ ज्येष्ठं, लघु चान्तर्मुहूर्त्तकम् ॥ ८१ ॥ ज्येष्ठं चैतत्कावलिकाहारस्य स्मृतमन्तरम् । खाभाविकं त्रिपल्यायुर्युक्त तिर्यगपेक्षया ॥ ८२ ॥ इत्याहारः ॥ गुणस्थानद्वयं संमूच्छिमानां विकलाक्षवत् । गर्भजानां पञ्च तानि, प्रथमानि भवन्ति हि ॥ ८३ ॥ इति गुणाः ॥ संमूच्छिमानां चत्वारो, योगाः स्युर्वि कलाक्षवत् । आहारकद्वयं मुक्त्वा, गर्भजानां त्रयोदश ॥ ८४ ॥ इति योगाः ॥ प्रतरासङ्ख्यभागस्थाऽसङ्ख्येयणिवर्त्तिभिः । नभः प्रदेशैः प्रमितास्तिर्यञ्चः खचराः स्मृताः ॥ ८५ ॥ एवमेव स्थलचरास्तथा जलचरा अपि । भवन्ति किंतु सङ्ख्येयगुणाधिकाः क्रमादिमे ॥ ८६ ॥ यदसौ प्रतरासङ्ख्य भागः प्रागुदितः खलु । यथाक्रमं श्रुते प्रोक्तो, वृहत्तरवृहत्तमः ॥ ८७ ॥ षट्पञ्चाशाङ्गुलशतद्वयमानानि निश्चितम् । यावन्ति सूचिखण्डानि, स्युरेकप्रतरे स्फुटम् ॥ ८८ ॥ तावज्योतिष्कदेवेभ्यः, स्युः सङ्ख्येयगुणाः क्रमात् । तिर्यक्पञ्चेन्द्रियाः षण्ढा, नभःस्थलाम्बुचारिणः ॥ ८९ ॥ एतत्संमूच्छिमगर्भोत्थानां समुदितं खलु । क्लीवानां मानमाभाव्यं श्रुते पृथगनुक्तितः ॥ ९० ॥ इति मानं ॥ एष्वरूपाः खचरास्तेभ्यः संख्यन्नाः खचरस्त्रियः । ताभ्यः स्थलचरास्तेभ्यः, संख्याः स्युस्तदङ्गनाः ॥ ९१ ॥ ताभ्यो जलचरास्तेभ्यो, जलचर्यस्ततः क्रमात् । नपुंसकाः सङ्ख्यगुणाः, नभः| स्थलाम्बुचारिणः ॥ ९२ ॥ एते च संमूच्छिमयुक्ता इति ज्ञेयं ॥ इति लव्यत्पबहुता ॥ स्तोकाः पश्चाक्षतिर्यचः, प्रतीच्यां स्युस्ततः क्रमात् । प्राच्यां याम्यामुदीच्यां च विशेषतोऽधिकाधिकाः ॥ ९३ ॥ इति दिगपेक्षया - ational For Private & Personal Use Only १० १४ w.jainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy