SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ गत्यागत्यादिद्वाराणि २० लोक.द्रव्या ते चैकस्मिन् क्षणे मुक्तिं, यान्तो यान्ति दशैव हि ॥ ६८॥ इत्यनन्तराप्तिः, समये सिद्धिश्च ॥ लेश्यात्रितय६ सर्गःशमाद्यं स्यात्, संमूछिमशरीरिणाम् । गर्भजानां यथायोगं, लेश्याः षडपि कीर्तिताः॥ ६९ ॥ इति लेश्याः॥ षडप्याहारककुभो, द्वयानामन्त्यमेव च । सामूर्छानां संहननमन्येषामखिलान्यपि ॥ ७० ॥ अत्र च श्रीजीवा॥१०२॥ भिगमाभिप्रायेण संमृच्छिमपञ्चाक्षतिरश्चामेवैकं संहननं संस्थानं च स्यात्, षष्ठकर्मग्रन्थाभिप्रायेण तु षडपि तानि स्युः इत्यर्थतः संग्रहणीबृहवृत्तौ ॥ इत्याहारदिक, संहननं च ॥ सर्वे कषायाः संज्ञाश्च, निखिलानीन्द्रियाणि च । द्वयानां संमूच्छिमाः स्युरसंज्ञिनः परेऽन्यथा ॥ ७१॥ इति कषायसंज्ञेन्द्रियसंज्ञिताः । संमूञ्छिमेषु तिर्यक्षु, स्त्री पुमांश्च न संभवेत् । केवलं क्लीबवेदास्ते, केवलज्ञानिभिर्मताः ॥७२॥ स्त्रियः पुमांसःक्लीवाश्च, तिर्यञ्चो गर्भजास्त्रिधा । पुम्भ्यः स्त्रियस्त्रिभी रूपैरधिकास्त्रिगुणास्तथा ॥७३ ॥ इति वेदाः॥ विकलेन्द्रियवद् दृष्टिद्वयं संमूच्छिमाङ्गिनाम् । तिस्रोऽपि दृष्टयोऽन्येषां, तत्र सम्यग्दृशो द्विधा ॥ ७४ ॥ केचिद्देशेन विरताः, परे त्वविरताश्रयाः । अभावः सर्वविरतस्तेषां भवस्वभावतः ॥ ७९ ॥ इति दृष्टिः॥ संमूछिमाः स्युदर्थज्ञाना, द्विज्ञाना अपि केचन । द्वित्राज्ञाना गर्भजा द्वित्रज्ञाना अपि केचन ॥ ७६ ॥ इति ज्ञानं ॥ दर्शनद्वयमाद्यं स्यादुभयेषामपि स्फुटम् । अवधिज्ञानभाजां तु, गर्भजानां त्रिदर्शनम् ॥ ७७॥ इति दर्शनं ॥ संमूर्छिमानां चत्वार, उपयोगाः प्रकीर्तिताः । गर्भजानां तु चत्वारः, षट् पञ्चौघान्नवापि ते ॥ ७८॥ यदेषां केवलज्ञानं, मुक्त्वा केवलदर्शनम् । ज्ञानं मन:पर्यवं च, सर्वेऽन्ये संभवन्ति ते ॥ ७९ ॥ इत्युपयोगाः ॥ स्यादनाहारिता Jain Educatie Roll For Private & Personal use only Alainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy