SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Jain Educat सरदा गोधा, ब्राह्मणी गृहगोलिका ॥ ९३ ॥ छुच्छुन्दरी मूषकाच, हालिनी जाहकादयः । एवं स्थलचरा उक्ता, उच्यन्ते खचरा अथ ॥ ९७ ॥ ते चतुर्धा लोमचर्मसमुद्गविततच्छदाः । तत्र हंसाः कलहंसाः, कपोत के किवायसाः ॥ ९८ ॥ ढङ्काः कङ्काश्चक्रवाकाश्च कोर क्रौञ्चसारसाः । कपिञ्जला: कुर्कुटाश्च, शुकतित्तिरलावकाः॥९९॥ हारीताः कोकिलाश्चाषा, बकचातकखञ्जनाः । शकुनिश्चटका गृद्धाः, सुगृहश्येनसारिकाः ॥ १०० ॥ शतपत्रभरद्वाजा:, कुम्भकाराश्च टिट्टिभाः । दुर्गकौशिकदात्यूहप्रमुखा लोमपक्षिणः ॥ १ ॥ वल्गुली चर्मचटिका, आटिर्भारुण्डपक्षिणः । समुद्रवायसा जीवजीवाद्याश्चर्मपक्षिणः ॥ २ ॥ समुद्वत्संघटितौ, येषामुडुयनेऽपि हि । पक्षौ स्यातां ते समुद्रपक्षिणः परिकीर्त्तिताः ॥ ३ ॥ अवस्थानेऽपि यत्पक्षौ, ततौ ते विततच्छदाः । इमौ स्तः पक्षिणां भेदौ द्वौ बाह्यद्वीपवार्धिषु ॥ ४ ॥ संमूच्छिमा गर्भजाश्चेत्यमी स्युर्द्विविधाः समे । विना ये गर्भसामग्री, जाताः संमूच्छिमाश्च ते ॥ ५ ॥ तथा गर्भादिसामग्र्या, ये जातास्ते हि गर्भजाः । आसालिकान्विना संमूच्छिमा एव हि ते ध्रुवम् ॥ ६ ॥ यत्तु सूत्रकृताङ्गे आहारपरिज्ञाध्ययने आसालिका गर्भजतयोक्तास्ते तत्सदृशनामानो विजातीया एव संभाव्यन्ते, अन्यथा प्रज्ञापनादिभिः सह विरोधापत्तेः ॥ अपर्याप्ताश्च पर्याप्ताः, प्रत्येकं द्विविधा इमे । एवं पञ्चाक्षतिर्यञ्चः सर्वेऽपि स्युश्चतुर्विधाः ॥ ७ ॥ इति भेदाः ॥ विकलाक्षवदुक्तानि, स्थानान्येषां जिनेश्वरैः । तत्तत्स्थानविशेषस्तु, स्वयं भाव्यो विवेकिभिः ॥ ८ ॥ इति स्थानानि ॥ पञ्च पर्याप्तयोऽमीषां, पर्याप्तिं मानसीं विना । संमूर्छिमानामन्येषां पुनरेता भवन्ति षट् ॥ ९ ॥ असंज्ञिनोऽमनस्का emational For Private & Personal Use Only १४ www.jainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy