________________
पर्याप्ताः, सर्वेऽप्येते सुरास्तथा । भवनव्यन्तरज्योतिष्काद्यकल्पद्वयोद्भवाः ॥९७ ॥ मृत्वा प्रत्येकविटपिवादरक्षितिवारिषु । आयान्ति तेषु देवास्तु, पर्याप्तेष्वपरेषु न ॥ ९८ ॥ अपर्याप्तेषु विष्वेषु, निगोदाम्यनिलेषु च। उत्पद्यन्ते च पूर्वोक्ताः, प्राणिनो निर्जरान् विना ॥ ९९ ॥ निर्जरोत्पत्तियोग्यानामुक्तः प्रत्येकभूरुहाम् । विशेषः पञ्चमाङ्गस्यैकर्विशादिशतद्वये ॥ ३०॥ शाल्यादिधान्यजातीनां, पुष्पे बीजे फलेषु च । देव उत्पद्यतेऽन्येषु, न मूलादिषु सप्तसु ॥१॥ कोरण्टकादिगुल्मानां, देवः पुष्पादिषु त्रिषु । उत्पद्यते न मूलादिसप्तके किल शालिवत् ॥२॥ इक्षुवाटिकमुख्यानां, मूलादिनवके सुरः । उत्पद्यते नैव किंतु, स्कन्धे उत्पद्यते परम् ॥३॥ इक्षुवाटिकादयस्त्वमी पश्चमाङ्गे प्रायो रूढिगम्याः पर्वकविशेषाः "अह भंते ! उकखुवाडिय वीरण इक्कड भामास संवत्त सत्तवन्न तिमिर सेसय चोरग तलाण एएसिणं जे जीवा मूलत्ताए वक्कमति एवं जहेव वंसवग्गे तहेव एत्थावि मूलादीया दस उद्देसगा, नवरं खंधुद्देसए देवो उववजए चत्तारि लेसाओ" तालप्रभृतिवृक्षाणां, तथैकास्थिकभूरुहाम् । तथैव बहुबीजानां, वल्लीनामप्यनेकधा ॥ ४३ ॥ उत्पद्यते प्रवालादिष्वेव पञ्चसु निर्जरः। न मूलादिपञ्चकेऽथ, नोक्तशेषवनस्पती॥५॥ तथोक्तम्-"पत्त पवाले पुप्फे फले य बीए य होइ उववाओ। रुखेसु सुरगणाणं पसत्थरसवण्णगंधेसु॥१॥” इति भगवतीद्वाविंशशतवृत्तौ । एकसामयिकी संख्योत्पत्तौ च मरणेऽपि च । विज्ञेया सूक्ष्मवन्नास्ति, विरहोत्रापि सूक्ष्मवत् ॥६॥ इत्यागतिः॥ विपद्यानन्तरभवे, तिर्यक्पश्चाक्षतां गताः। सम्यक्त्वं देशविरतिं, लभन्ते भूदकद्रुमाः॥७॥ विपद्यानन्तरभवे, प्राप्य
meroercereoccccERESELekseeeeeeseses
Jain Educati
o nal
For Private
Personel Use Only
wjainelibrary.org