________________
लोक. द्रव्य. ५ सर्गः
॥ ९३ ॥
भवेत् ॥९२॥ यत्तु श्रीजिनवल्लभसूरिभिः खकृतदेहास्पबहुत्वोद्धारे अपर्याप्तप्रत्येक तरुत्कृष्टावगाहनातः पर्यासतरुत्कृष्टावगाहना विशेषाभ्यधिकोक्ता, तञ्चित्यं अङ्गुलासंख्येयभागमाना पर्याप्त प्रत्येकतरुत्कृष्टावगाहनातः सातिरेकयोजन सहस्रमानायाः पर्याप्तप्रत्येकतरुत्कृष्टायमानाया विशेषाधिकत्वस्यासंगतत्वात्, भगवती सूत्रेण सह विरोधाच, तथा च तद्ग्रन्थः -- " पत्तेअसरीरबादरवणस्स इकाइयस्स पज्जत्तगस्स जहण्णिआ ओगाहणा असंखेज्जगुणा, तस्स चेव अपज्जत्तगस्स उक्कोसिआ ओगाहणा असंखिजगुणा, तस्स चेव पज्जन्तगस्स उक्कोसिया ओगाहणा असंखिज्जगुणा" इति भगवतीशतक १९ तृतीयोदशके, भावार्थस्तु यन्त्रकाद् ज्ञेयः । अत्र जीवभेदाश्चतुश्चत्वारिंशत्, अवगाहनाभेदाश्च त्रिचत्वारिंशदेव, अपर्याप्तबादर निगोदजघन्यावगाहनाया अपर्याप्तप्रत्येक वनस्पतिजघन्यावगाहनायाश्च मिथस्तुल्यत्वात्, अत एव कोष्ठकाश्चतुश्चत्वारिंशत् अङ्कास्त्रिचत्वारिंशदेव, पञ्चमैकचत्वारिंशयोः कोष्ठयोदशकस्यैव सद्भावादिति ध्येयं, इत्यङ्गमानम् ।
एषां त्रयः समुद्घाता, आद्याः स्युर्वेदनादयः । क्ष्मादीनां तेऽनिलानां तु चत्वारः स्युः सवैक्रियाः ॥ ९२ ॥ इति समुद्घातः ॥ बादरक्षितिनीराणि, प्रत्येकान्यद्रुमा अपि । मृत्योत्पद्यन्तेऽखिलेषु, तिर्यक्ष्ये केन्द्रियादिषु ॥ ९३ ॥ पञ्चाक्षेष्वपि तिर्यक्षु, गर्भसंमूर्च्छजन्मसु । नरेष्वपि द्विभेदेषु, संख्येयायुष्कशालिषु ॥ ९४ ॥ युग्मम् । गच्छतो वह्निवायू तु सर्वेष्वेषु नरान्विना । ततः पूर्वे दिगतयोऽम् त्वेकगतिको स्मृतौ ॥ ९५ ॥ इति गतिः । एकद्वित्रिचतुरक्षाः, पञ्चाक्षाः संख्यजीविनः । तिर्यञ्चो मनुजाश्चैव गर्भसंमूर्च्छनोद्भवाः ॥ ९६ ॥ अपर्याप्ताञ्च
Jain Education International
For Private & Personal Use Only
एकेन्द्रिया • वगाहना भेदाः समुद्वातादि
२०
२५
॥ ९३ ॥
२८
jainelibrary.org